श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

तैत्तिरीयोपनिषद्भाष्यम्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

यस्माज्जातं जगत्सर्वं यस्मिन्नेव प्रलीयते ।
येनेदं धार्यते चैव तस्मै ज्ञानात्मने नमः ॥ १ ॥
यैरिमे गुरुभिः पूर्वं पदवाक्यप्रमाणतः ।
व्याख्याताः सर्ववेदान्तास्तान्नित्यं प्रणतोऽस्म्यहम् ॥ २ ॥
तैत्तिरीयकसारस्य मयाचार्यप्रसादतः ।
विस्पष्टार्थरुचीनां हि व्याख्येयं सम्प्रणीयते ॥ ३ ॥
नित्यान्यधिगतानि कर्माणि उपात्तदुरितक्षयार्थानि, काम्यानि च फलार्थिनां पूर्वस्मिन्ग्रन्थे । इदानीं कर्मोपादानहेतुपरिहाराय ब्रह्मविद्या प्रस्तूयते । कर्महेतुः कामः स्यात् , प्रवर्तकत्वात् । आप्तकामानां हि कामाभावे स्वात्मन्यवस्थानात्प्रवृत्त्यनुपपत्तिः । आत्मकामत्वे चाप्तकामता । आत्मा च ब्रह्म । तद्विदो हि परप्राप्तिं वक्ष्यति । अतः अविद्यानिवृत्तौ स्वात्मन्यवस्थानं परप्राप्तिः, ‘अभयं प्रतिष्ठां विन्दते’ (तै. उ. २ । ७ । १) ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५)इत्यादि श्रुतेः । काम्यप्रतिषिद्धयोरनारम्भात् आरब्धस्य च उपभोगेन क्षयात् नित्यानुष्ठानेन च प्रत्यवायाभावात् अयत्नत एव स्वात्मन्यवस्थानं मोक्षः । अथवा, निरतिशयायाः प्रीतेः स्वर्गशब्दवाच्याया कर्महेतुत्वात्कर्मभ्य एव मोक्ष इति चेत् , न ; कर्मानेकत्वात् । अनेकानि हि आरब्धफलानि अनारब्धफलानि च अनेकजन्मान्तरकृतानि विरुद्धफलानि कर्माणि सम्भवन्ति । अतः तेष्वनारब्धफलानामेकस्मिञ्जन्मन्युपभोगेन क्षयासम्भवात् शेषकर्मनिमित्तशरीरारम्भोपपत्तिः । कर्मशेषसद्भावसिद्धिश्च ‘तद्य इह रमणीयचरणाः’ (छा. उ. ५ । १० । ७) ‘ततः शेषेण’ (आ. ध. २ । २ । २ । ३)(गो. स्मृ. ११) इत्यादि श्रुतिस्मृतिशतेभ्यः । इष्टानिष्टफलानामनारब्धानां क्षयार्थानि नित्यानि इति चेत् , न ; अकरणे प्रत्यवायश्रवणात् । प्रत्यवायशब्दो हि अनिष्टविषयः । नित्याकरणनिमित्तस्य प्रत्यवायस्य दुःखरूपस्य आगामिनः परिहारार्थानि नित्यानीत्यभ्युपगमात् न अनारब्धफलकर्मक्षयार्थानि । यदि नाम अनारब्धफलकर्मक्षयार्थानि नित्यानि कर्माणि, तथाप्यशुद्धमेव क्षपयेयुः ; न शुद्धम् , विरोधाभावात् । न हि इष्टफलस्य कर्मणः शुद्धरूपत्वान्नित्यैर्विरोध उपपद्यते । शुद्धाशुद्धयोर्हि विरोधो युक्तः । न च कर्महेतूनां कामानां ज्ञानाभावे निवृत्त्यसम्भवादशेषकर्मक्षयोपपत्तिः । अनात्मविदो हि कामः, अनात्मफलविषयत्वात् । स्वात्मनि च कामानुपपत्तिः, नित्यप्राप्तत्वात् । स्वयं चात्मा परं ब्रह्मेत्युक्तम् । नित्यानां च अकरणमभावः ततः प्रत्यवायानुपपत्तिरिति । अतः पूर्वोपचितदुरितेभ्यः प्राप्यमाणायाः प्रत्यवायक्रियाया नित्याकरणं लक्षणमिति शतृप्रत्ययस्य नानुपपत्तिः - ‘अकुर्वन्विहितं कर्म’ (मनु. ११ । ४४) इति । अन्यथा हि अभावाद्भावोत्पत्तिरिति सर्वप्रमाणव्याकोप इति । अतः अयत्नतः स्वात्मन्यवस्थानमित्यनुपपन्नम् । यच्चोक्तं निरतिशयप्रीतेः स्वर्गशब्दवाच्यायाः कर्मनिमित्तत्वात्कर्मारभ्य एव मोक्ष इति, तन्न, नित्यत्वान्मोक्षस्य । न हि नित्यं किञ्चिदारभ्यते, लोके यदारब्धम् , तदनित्यमिति । अतो न कर्मारभ्यो मोक्षः । विद्यासहितानां कर्मणां नित्यारम्भसामर्थ्यमिति चेत् , न ; विरोधात् । नित्यं चारभ्यत इति विरुद्धम् । यद्धि नष्टम् , तदेव नोत्पद्यत इति प्रध्वंसाभाववन्नित्योऽपि मोक्ष आरभ्य एवेति चेत् , न ; मोक्षस्य भावरूपत्वात् । प्रध्वंसाभावोऽप्यारभ्यत इति न सम्भवति अभावस्य विशेषाभावाद्विकल्पमात्रमेतत् । भावप्रतियोगी ह्यभावः । यथा ह्यभिन्नोऽपि भावो घटपटादिभिर्विशेष्यते भिन्न इव घटभावः पटभाव इति, एवं निर्विशेषोऽप्यभावः क्रियागुणयोगाद्द्रव्यादिवद्विकल्प्यते । न ह्यभाव उत्पलादिवद्विशेषणसहभावी । विशेषणवत्त्वे भाव एव स्यात् । विद्याकर्मकर्तुर्नित्यत्वात् विद्याकर्मसन्तानजनितमोक्षनित्यत्वमिति चेत् , न ; गङ्गास्रोतोवत्कर्तृत्वस्य दुःखरूपत्वात् , कर्तृत्वोपरमे च मोक्षविच्छेदात् । तस्मादविद्याकामकर्मोपादानहेतुनिवृत्तौ स्वात्मन्यवस्थानं मोक्ष इति । स्वयं चात्मा ब्रह्म । तद्विज्ञानादविद्यानिवृत्तिरिति । अतः ब्रह्मविद्यार्थोपनिषदारभ्यते । उपनिषदिति विद्योच्यते, तत्सेविनां गर्भजन्मजरादिनिशातनात् , तदवसादनाद्वा ब्रह्मण उपनिगमयितृत्वात् ; उपनिषण्णं वा अस्यां परं श्रेय इति । तदर्थत्वाद्ग्रन्थोऽप्युपनिषत् ॥
ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥
शं सुखं प्राणवृत्तेरह्नश्चाभिमानी देवतात्मा मित्रः नः अस्माकं भवतु । तथैव अपानवृत्तेः रात्रेश्चाभिमानी देवतात्मा वरुणः ; चक्षुषि आदित्ये चाभिमानी अर्यमा ; बले इन्द्रः ; वाचि बुद्धौ च बृहस्पतिः ; विष्णुः उरुक्रमः विस्तीर्णक्रमः पादयोरभिमानी ; एवमाद्या अध्यात्मदेवताः शं नः ; भवतु इति सर्वत्रानुषङ्गः । तासु हि सुखकृत्सु विद्याश्रवणधारणोपयोगाः अप्रतिबन्धेन भविष्यन्तीति तत्सुखकृत्त्वं प्रार्थ्यते - शं नो भवतु इति । ब्रह्मविद्याविविदिषुणा नमस्कारब्रह्मवदनक्रिये वायुविषये ब्रह्मविद्योपसर्गशान्त्यर्थे क्रियेते - सर्वत्र क्रियाफलानां तदधीनत्वात् । ब्रह्म वायुः, तस्मै ब्रह्मणे नमः प्रह्वीभावम् , करोमीति वाक्यशेषः । नमः ते तुभ्यं हे वायो नमस्करोमि इति परोक्षप्रत्यक्षाभ्यां वायुरेवाभिधीयते । किं च, त्वमेव चक्षुराद्यपेक्ष्य बाह्यं संनिकृष्टमव्यवहितं प्रत्यक्षं ब्रह्मासि यस्मात् , तस्मात् त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ; ऋतं यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुपरिनिश्चितमर्थं त्वदधीनत्वात् त्वामेव वदिष्यामि ; सत्यमिति स एव वाक्कायाभ्यां सम्पाद्यमानः, सोऽपि त्वदधीन एव सम्पाद्यत इति त्वामेव सत्यं वदिष्यमि । तत् सर्वात्मकं वाय्वाख्यं ब्रह्म मयैवं स्तुतं सत् विद्यार्थिनं माम् अवतु विद्यासंयोजनेन । तदेव ब्रह्म वक्तारम् आचार्यं च वक्तृत्वसामर्थ्यसंयोजनेन अवतु । अवतु माम् अवतु वक्तारम् इति पुनर्वचनमादरार्थम् । शान्तिः शान्तिः शान्तिः इति त्रिर्वचनम् आध्यात्मिकाधिभौतिकाधिदैविकानां विद्याप्राप्त्युपसर्गाणां प्रशमनार्थम् ॥
इति प्रथमानुवाकभाष्यम् ॥
अर्थज्ञानप्रधानत्वादुपनिषदः ग्रन्थपाठे यत्नोपरमो मा भूदिति शीक्षाध्याय आरभ्यते -
शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ १ ॥
शिक्षा शिक्ष्यते अनयेति वर्णाद्युच्चारणलक्षणम् , शिक्ष्यन्ते अस्मिन् इति वा शिक्षा वर्णादयः । शिक्षैव शीक्षा । दैर्घ्यं छान्दसम् । तां शीक्षां व्याख्यास्यामः विस्पष्टम् आ समन्तात्प्रकथयिष्यामः । चक्षिङः ख्याञादिष्टस्य व्याङ्पूर्वस्य व्यक्तवाक्कर्मण एतद्रूपम् । तत्र वर्णः अकारादिः । स्वर उदात्तादिः । मात्रा ह्रस्वाद्याः । बलं प्रयत्नविशेषः । साम वर्णानां मध्यमवृत्त्योच्चारणं समता । सन्तानः सन्ततिः, संहितेत्यर्थः । एवं शिक्षितव्योऽर्थः शिक्षा यस्मिन्नध्याये, सोऽयं शीक्षाध्यायः इति एवम् उक्तः उदितः । उक्त इत्युपसंहारार्थः ॥
इति द्वितीयानुवाकभाष्यम् ॥
सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः सं हिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासं हिता इत्याचक्षते । अथाधििलोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः ॥ १ ॥
अधुना संहितोपनिषदुच्यते । तत्र संहिताद्युपनिषत्परिज्ञाननिमित्तं यत् यशः प्राप्यते, तत् नौ आवयोः शिष्यार्चार्ययोः सहैव अस्तु । तन्निमित्तं च यत् ब्रह्मवर्चसं तेजः, तच्च सहैवास्तु इति शिष्यवचनमाशीः । शिष्यस्य हि अकृतार्थत्वात्प्रार्थनोपपद्यते ; नाचार्यस्य, कृतार्थत्वात् । कृतार्थो ह्याचार्यो नाम भवति । अथ अनन्तरम् अध्ययनलक्षणविधानस्य पूर्ववृत्तस्य, अतः यतोऽत्यर्थं ग्रन्थभाविता बुद्धिर्न शक्यते सहसार्थज्ञानविषयेऽवतारयितुमित्यतः, संहितायाः उपनिषदं संहिताविषयं दर्शनमित्येतत् ग्रन्थसंनिकृष्टामेव व्याख्यास्यामः, पञ्चसु अधिकरणेषु आश्रयेषु, ज्ञानविषयेष्वित्यर्थः । कानि तानीत्याह - - अधिलोकं लोकेष्वधि यद्दर्शनम् , तदधिलोकम् , तथा अधिज्यौतिषम् अधिविद्यम् अधिप्रजम् अध्यात्ममिति । ताः एताः पञ्चविषया उपनिषदः लोकादिमहावस्तुविषयत्वात्संहिताविषयत्वाच्च महत्यश्च ताः संहिताश्च महासंहिताः इति आचक्षते कथयन्ति वेदविदः । अथ तासां यथोपन्यस्तानां मध्ये अधिलोकं दर्शनमुच्यते । दर्शनक्रमविवक्षार्थः अथशब्दः सर्वत्र । पृथिवी पूर्वरूपम् , पूर्वो वर्णः पूर्वरूपम् , संहितायाः पूर्वे वर्णे पृथिवीदृष्टिः कर्तव्येत्युक्तं भवति । तथा द्यौः उत्तररूपम् । आकाशः अन्तरिक्षलोकः सन्धिः मध्यं पूर्वोत्तररूपयोः सन्धीयते अस्मिन्पूर्वोत्तररूपे इति ॥
वायुः सन्धानम् । इत्यधिलोकम् । अथाधिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः । वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् । आचार्यः पूर्वरूपम् ॥ २ ॥
अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनं सन्धानम् । इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तररूपम् । प्रजा सन्धिः । प्रजननं सन्धानम् । इत्यधिप्रजम् ॥ ३ ॥
अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तररूपम् । वाक्सन्धिः । जिह्वा सन्धानम् । इत्यध्यात्मम् । इतीमा महासं हिताः । य एवमेता महासं हिता व्याख्याता वेद । सन्धीयते प्रजया पशुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन ॥ ४ ॥
वायुः सन्धानम् । सन्धीयते अनेनेति सन्धानम् । इति अधिलोकं दर्शनमुक्तम् । अथाधिज्यौतिषम् इत्यादि समानम् । इतीमा इति उक्ता उपप्रदर्श्यन्ते । यः कश्चित् एवम् एताः महासंहिताः व्याख्याताः वेद उपास्ते, वेदेत्युपासनं स्यात् , विज्ञानाधिकारात् , ‘इति प्राचीनयोग्योपास्स्व’ इति च वचनात् । उपासनं च यथाशास्त्रं तुल्यप्रत्ययसन्ततिरसङ्कीर्णा च अतत्प्रत्ययैः शास्त्रोक्तालम्बनविषया च । प्रसिद्धश्चोपासनशब्दार्थो लोके - - ‘गुरुमुपास्ते’ ‘राजानमुपास्ते’ इति । यो हि गुर्वादीन्सन्ततमुपचरति, स उपास्त इत्युच्यते । स च फलमाप्नोत्युपासनस्य । अतः अत्रापि य एवं वेद, सन्धीयते प्रजादिभिः स्वर्गान्तैः । प्रजादिफलं प्राप्नोतीत्यर्थः ॥
इति तृतीयानुवाकभाष्यम् ॥
यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात्सम्बभूव । स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः । श्रुतं मे गोपाय । आवहन्ती वितन्वाना ॥ १ ॥
कुर्वाणाचीरमात्मनः । वासां सि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिः सह स्वाहा । आमायन्तु ब्रह्मचारिणः स्वाहा । विमायन्तु ब्रह्मचारिणः स्वाहा । प्रमायन्तु ब्रह्मचारिणः स्वाहा । दमायन्तु ब्रह्मचारिणः स्वाहा । शमायन्तु ब्रह्मचारिणः स्वाहा ॥ २ ॥
यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा । तस्मिन्सहस्रशाखे । निभगाहं त्वयि मृजे स्वाहा । यथापः प्रवता यन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा । प्रतिवेशोऽसि प्रमा पाहि प्र मा पद्यस्व ॥ ३ ॥
यश्छन्दसामिति मेधाकामस्य श्रीकामस्य च तत्प्राप्तिसाधनं जपहोमावुच्येते, ‘स मेन्द्रो मेधया स्पृणोतु’ ‘ततो मे श्रियमावह’ इति च लिङ्गदर्शनात् । यः छन्दसां वेदानाम् ऋषभ इव ऋषभः, प्राधान्यात् । विश्वरूपः सर्वरूपः, सर्ववाग्व्याप्तेः ‘तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक्सन्तृण्णोङ्कार एवेदं सर्वम्’ (छा. उ. २ । २३ । ३) इत्यादिश्रुत्यन्तरात् । अत एव ऋषभत्वमोङ्कारस्य । ओङ्कारो ह्यत्रोपास्य इति ऋषभादिशब्दैः स्तुतिर्न्याय्यैव ओङ्कारस्य । छन्दोभ्यः वेदेभ्यः, वेदा ह्यमृतम् , तस्मात् अमृतात् अधि सम्बभूव लोकदेववेदव्याहृतिभ्यः सारिष्ठं जिघृक्षोः प्रजापतेस्तपस्यतः ओङ्कारः सारिष्ठत्वेन प्रत्यभादित्यर्थः । न हि नित्यस्य ओङ्कारस्य अञ्जसैवोत्पत्तिरवकल्पते । सः एवंभूत ओङ्कारः इन्द्रः सर्वकामेशः परमेश्वरः मा मां मेधया प्रज्ञया स्पृणोतु प्रीणयतु, बलयतु वा, प्रज्ञाबलं हि प्रार्थ्यते । अमृतस्य अमृतत्वहेतुभूतस्य ब्रह्मज्ञानस्य, तदधिकारात् ; हे देव धारणः धारयिता भूयासं भवेयम् । किं च, शरीरं मे मम विचर्षणं विचक्षणं योग्यमित्येतत् , भूयादिति प्रथमपुरुषविपरिणामः । जिह्वा मे मम मधुमत्तमा मधुमती, अतिशयेन मधुरभाषिणीत्यर्थः । कर्णाभ्यां श्रोत्राभ्यां भूरि बहु विश्रुवं व्यश्रवम् , श्रोता भूयासमित्यर्थः । आत्मज्ञानयोग्यः कार्यकरणसङ्घातोऽस्त्विति वाक्यार्थः । मेधा च तदर्थमेव हि प्रार्थ्यते - ब्रह्मणः परमात्मनः कोशः असि असेरिव ; उपलब्ध्यधिष्ठानत्वात् ; त्वं हि ब्रह्मणः प्रतीकम् , त्वयि ब्रह्मोपलभ्यते । मेधया लौकिकप्रज्ञया पिहितः आच्छादितः स त्वं सामान्यप्रज्ञैरविदिततत्त्व इत्यर्थः । श्रुतं श्रवणपूर्वकमात्मज्ञानादिकं विज्ञानं मे गोपाय रक्ष ; तत्प्राप्त्यविस्मरणादिकं कुर्वित्यर्थः । जपार्था एते मन्त्रा मेधाकामस्य । श्रीकामस्य होमार्थास्त्वधुनोच्यन्ते मन्त्राः - आवहन्ती आनयन्ती ; वितन्वाना विस्तारयन्ती ; तनोतेस्तत्कर्मकत्वात् ; कुर्वाणा निर्वर्तयन्ती अचीरम् अचिरं क्षिप्रमेव ; छान्दसो दीर्घः ; चिरं वा ; कुर्वाणा, आत्मनः मम ; किमित्याह वासांसि वस्त्राणि, मम, गावश्च गाश्चेति यावत् ; अन्नपाने च सर्वदा ; एवमादीनि कुर्वाणा श्रीर्या, तां ततः मेधानिर्वर्तनात्परम् आवह आनय ; अमेधसो हि श्रीरनर्थायैवेति । किंविशिष्टाम् ? लोमशाम् अजाव्यादियुक्ताम् अन्यैश्च पशुभिः सह युक्ताम् आवहेति । अधिकारादोङ्कार एवाभिसम्बध्यते । स्वाहा, स्वाहाकारो होमार्थमन्त्रान्तज्ञापनार्थः । आमायन्त्विति । आयन्तु, मामिति व्यवहितेन सम्बन्धः, ब्रह्मचारिणः । विमायन्तु प्रमायन्तु दमायन्तु शमायन्तु इत्यादि । यशोजने यशस्विजनेषु असानि भवानि । श्रेयान् प्रशस्यतरः, वस्यसः वसीयसः वसुतराद्वसुमत्तराद्वा धनवज्जातीयपुरुषाद्विशेषवानहमसानीत्यर्थः । किं च, तं ब्रह्मणः कोशभूतं त्वा त्वां हे भग भगवन् पूजार्ह, प्रविशानि । प्रविश्य चानन्यस्त्वदात्मैव भवानीत्यर्थः । सः त्वमपि मा मां भग भगवन् , प्रविश ; आवयोरेकात्मत्वमेवास्तु । तस्मिन् त्वयि सहस्रशाखे बहुशाखाभेदे हे भगवन् , निमृजे शोधयामि अहं पापकृत्याम् । यथा लोके आपः प्रवता प्रवणवता निम्नवता देशेन यन्ति गच्छन्ति यथा च मासाः अहर्जरम् , संवत्सरोऽहर्जरः अहोभिः परिवर्तमानो लोकाञ्जरयतीति ; अहानि वा अस्मिन् जीर्यन्ति अन्तर्भवन्तीत्यहर्जरः ; तं च यथा मासाः यन्ति, एवं मां ब्रह्मचारिणः हे धातः सर्वस्य विधातः, माम् आयन्तु आगच्छन्तु सर्वतः सर्वदिग्भ्यः । प्रतिवेशः श्रमापनयनस्थानम् आसन्नं गृहमित्यर्थः । एवं त्वं प्रतिवेश इव प्रतिवेशः त्वच्छीलिनां सर्वपापदुःखापनयनस्थानमसि । अतः मा मां प्रति प्रभाहि प्रकाशयात्मानम् , प्र मा पद्यस्व प्रपद्यस्व च माम् । रसविद्धमिव लोहं त्वन्मयं त्वदात्मानं कुर्वित्यर्थः । श्रीकामोऽस्मिन्विद्याप्रकरणे अभिधीयमानो धनार्थः ; धनं च कर्मार्थम् ; कर्म च उपात्तदुरितक्षयार्थम् ; तत्क्षये हि विद्या प्रकाशते । तथा च स्मृतिः - ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतले प्रख्ये पश्यत्यात्मानमात्मनि’ (म. भा. शां. २०४ । ८)(गरुड. १ । २३७ । ६) इति ॥
इति चतुर्थानुवाकभाष्यम् ॥
संहिताविषयमुपासनमुक्तम् । तदनु मेधाकामस्य श्रीकामस्य चानुक्रान्ता मन्त्राः । ते च पारम्पर्येण विद्योपयोगार्था एव । अनन्तरं व्याहृत्यात्मनो ब्रह्मणः अन्तरुपासनं स्वाराज्यफलं प्रस्तूयते -
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मैतां चतुर्थीम् । माहाचमस्यः प्रवेदयते । मह इति । तद्ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः । भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः ॥ १ ॥
मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयन्ते । भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते । भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूंषि ॥ २ ॥
मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते । भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते । ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः । ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ॥ ३ ॥
भूर्भुवः सुवरिति । इतीत्युक्तोपप्रदर्शनार्थः । एतास्तिस्र इति च प्रदर्शितानां परामर्शार्थः परामृष्टाः स्मर्यन्ते वै इत्यनेन । तिस्र एताः प्रसिद्धा व्याहृतयः स्मर्यन्त इति यावत् । तासाम् इयं चतुर्थी व्याहृतिर्मह इति ; तामेतां चतुर्थीं महाचमसस्यापत्यं माहाचमस्यः प्रवेदयते, उ ह स्म इत्येतेषां वृत्तानुकथनार्थत्वात् विदितवान् ददर्शेत्यर्थः । माहाचमस्यग्रहणमार्षानुस्मरणार्थम् । ऋष्यनुस्मरणमप्युपासनाङ्गमिति गम्यते, इहोपदेशात् । येयं माहाचमस्येन दृष्टा व्याहृतिः मह इति, तत् ब्रह्म । महद्धि ब्रह्म ; महश्च व्याहृतिः । किं पुनस्तत् ? स आत्मा, आप्नोतेर्व्याप्तिकर्मणः आत्मा ; इतराश्च व्याहृतयो लोका देवा वेदाः प्राणाश्च मह इत्यनेन व्याहृत्यात्मना आदित्यचन्द्रब्रह्मान्नभूतेन व्याप्यन्ते यतः, अत अङ्गानि अवयवाः अन्याः देवताः । देवताग्रहणमुपलक्षणार्थं लोकादीनाम् । मह इत्यस्य व्याहृत्यात्मनो देवा लोकादयश्च सर्वे अवयवभूता यतः, अत आह - आदित्यादिभिर्लोकादयो महीयन्त इति । आत्मना ह्यङ्गानि महीयन्ते महनं वृद्धिः उपचयः । महीयन्ते वर्धन्त इत्यर्थः । अयं लोकः अग्निः ऋग्वेदः प्राण इति प्रथमा व्याहृतिः भूः, अन्तरिक्षं वायुः सामानि अपानः इति द्वितीया व्याहृतिः भुवः ; असौ लोकः आदित्यः यजूंषि व्यानः इति तृतीया व्याहृतिः सुवः ; आदित्यः चन्द्रमाः ब्रह्म अन्नम् इति चतुर्थी व्याहृतिः महः इत्येवम् एकैकाश्चतुर्धा भवन्ति । मह इति ब्रह्म ब्रह्मेत्योङ्कारः, शब्दाधिकारे अन्यस्यासम्भवात् । उक्तार्थमन्यत् । ता वा एताश्चतस्रश्चतुर्धेति । ता वै एताः भूर्भुवःसुवर्मह इति चतस्रः एकैकशः चतुर्धा चतुःप्रकाराः । धा - शब्दः प्रकारवचनः । चतस्रश्चतस्रः सत्यः चतुर्धा भवन्तीत्यर्थः । तासां यथाक्लृप्तानां पुनरुपदेशस्तथैवोपासननियमार्थः । ताः यथोक्ता व्याहृतीः यः वेद, स वेद विजानाति । किं तत् ? ब्रह्म । ननु, ‘तद्ब्रह्म स आत्मा’ इति ज्ञाते ब्रह्मणि, न वक्तव्यमविज्ञातवत् ‘स वेद ब्रह्म’ इति ; न ; तद्विशेषविवक्षुत्वाददोषः । सत्यं विज्ञातं चतुर्थव्याहृत्या आत्मा ब्रह्मेति ; न तु तद्विशेषः - हृदयान्तरुपलभ्यत्वं मनोमयत्वादिश्च । ‘शान्तिसमृद्धम्’ इत्येवमन्तो विशेषणविशेषरूपो धर्मपूगो न विज्ञायत इति ; तद्विवक्षु हि शास्त्रमविज्ञातमिव ब्रह्म मत्वा ‘स वेद ब्रह्म’ इत्याह । अतो न दोषः । यो वा वक्ष्यमाणेन धर्मपूगेण विशिष्टं ब्रह्म वेद, स वेद ब्रह्म इत्यभिप्रायः । अतो वक्ष्यमाणानुवाकेनैकवाक्यता अस्य, उभयोर्ह्यनुवाकयोरेकमुपासनम् । लिङ्गाच्च । ‘भूरित्यग्नौ प्रतितिष्ठति’ इत्यादिकं लिङ्गमुपासनैकत्वे । विधायकाभावाच्च । न हि वेद उपासीत वेति विधायकः कश्चिच्छब्दोऽस्ति । व्याहृत्यनुवाके ‘ता यो वेद’ इति तु वक्ष्यमाणार्थत्वान्नोपासनाभेदकः । वक्ष्यमाणार्थत्वं च तद्विशेषविवक्षुत्वादित्यादिनोक्तम् । सर्वे देवाः अस्मै एवंविदुषे अङ्गभूताः आवहन्ति आनयन्ति बलिम् , स्वाराज्यप्राप्तौ सत्यामित्यर्थः ॥
इति पञ्चमानुवाकभाष्यम् ॥
भूर्भुवः सुवः स्वरूपा मह इत्येतस्य हिरण्यगर्भस्य व्याहृत्यात्मनो ब्रह्मणोऽङ्गान्यन्या देवता इत्युक्तम् । यस्य ता अङ्गभूताः, तस्यैतस्य ब्रह्मणः साक्षादुपलब्ध्यर्थमुपासनार्थं च हृदयाकाशः स्थानमुच्यते, सालग्राम इव विष्णोः । तस्मिन्हि तद्ब्रह्म उपास्यमानं मनोमयत्वादिधर्मविशिष्टं साक्षादुपलभ्यते, पाणाविवामलकम् । मार्गश्च सर्वात्मभावप्रतिपत्तये वक्तव्य इत्यनुवाक आरभ्यते -
स य एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके । य एष स्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले । भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ ॥ १ ॥
सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्तिसमृद्धममृतम् । इति प्राचीनयोग्योपास्स्व ॥ २ ॥
स इति व्युत्क्रम्य अयं पुरुष इत्यनेन सम्बन्ध्यते । य एष अन्तर्हृदये हृदयस्यान्तः । हृदयमिति पुण्डरीकाकारो मांसपिण्डः प्राणायतनोऽनेकनाडीसुषिर ऊर्ध्वनालोऽधोमुखो विशस्यमाने पशौ प्रसिद्ध उपलभ्यते । तस्यान्तः य एष आकाशः प्रसिद्ध एव करकाकाशवत् , तस्मिन् सोऽयं पुरुषः, पुरि शयनात् , पूर्णा वा भूरादयो लोका येनेति पुरुषः मनोमयः, मनः विज्ञानं मनुतेर्ज्ञानकर्मणः, तन्मयः तत्प्रायः, तदुपलभ्यत्वात् । मनुते अनेनेति वा मनः अन्तःकरणम् ; तदभिमानी तन्मयः, तल्लिङ्गो वा । अमृतः अमरणधर्मा । हिरण्मयः ज्योतिर्मयः । तस्यैवंलक्षणस्य हृदयाकाशे साक्षात्कृतस्य विदुष आत्मभूतस्य ईश्वररूपस्य प्रतिपत्तये मार्गोऽभिधीयते - हृदयादूर्ध्वं प्रवृत्ता सुषुम्ना नाम नाडी योगशास्त्रेषु प्रसिद्धा । सा च अन्तरेण तालुके मध्ये तालुकयोर्गता । यश्च एष तालुकयोर्मध्ये स्तन इव अवलम्बते मांसखण्डः, तस्य च अन्तरेण इत्येतत् । यत्र च असौ केशान्तः केशानामन्तो मूलं केशान्तः विवर्तते विभागेन वर्तते, मूर्धप्रदेश इत्यर्थः ; तं देशं प्राप्य तेनान्तरेण व्यपोह्य विभज्य विदार्य शीर्षकपाले शिरःकपाले, विनिर्गता या, सा इन्द्रयोनिः इन्द्रस्य ब्रह्मणः योनिः मार्गः, स्वरूपप्रतिपत्तिद्वारमित्यर्थः । तथा एवं विद्वान्मनोमयात्मदर्शी मूर्ध्नो विनिष्क्रम्य अस्य लोकस्याधिष्ठाता भूरिति व्याहृतिरूपो योऽग्निः महतो ब्रह्मणोऽङ्गभूतः, तस्मिन् अग्नौ प्रतितिष्ठति, अग्न्यात्मना इमं लोकं व्याप्नोतीत्यर्थः । तथा भुव इति द्वितीयव्याहृत्यात्मनि वायौ, प्रतितिष्ठतीत्यनुवर्तते । सुवरिति तृतीयव्याहृत्यात्मनि आदित्ये । मह इत्यङ्गिनि चतुर्थव्याहृत्यात्मनि ब्रह्मणि प्रतितिष्ठतीति । तेष्वात्मभावेन स्थित्वा आप्नोति ब्रह्मभूतं स्वाराज्यं स्वराड्भावं स्वयमेव राजा अधिपतिर्भवति अङ्गभूतानां देवतानां यथा ब्रह्म ; देवाश्च सर्वे अस्मै अङ्गिने बलिमावहन्ति अङ्गभूताः यथा ब्रह्मणे । आप्नोति मनसस्पतिम् , सर्वेषां हि मनसां पतिः, सर्वात्मकत्वाद्ब्रह्मणः सर्वैर्हि मनोभिस्तन्मनुते । तदाप्नोत्येवं विद्वान् । किं च, वाक्पतिः सर्वासां वाचां पतिर्भवति । तथैव चक्षुष्पतिः चक्षुषां पतिः । श्रोत्रपतिः श्रोत्राणां च पतिः । विज्ञानपतिः विज्ञानानां च पतिः । सर्वात्मकत्वात्सर्वप्राणिनां करणैस्तद्वान्भवतीत्यर्थः । किं च, ततोऽपि अधिकतरम् एतत् भवति । किं तत् ? उच्यते - आकाशशरीरम् आकाशः शरीरमस्य, आकाशवद्वा सूक्ष्मं शरीरमस्येत्याकाशशरीरम् । किं तत् ? प्रकृतं ब्रह्म । सत्यात्म, सत्यं मूर्तामूर्तम् अवितथं स्वरूपं वा आत्मा स्वभावोऽस्य, तदिदं सत्यात्म । प्राणारामम् , प्राणेष्वारमणमाक्रीडा यस्य तत्प्राणारामम् ; प्राणानां वा आरामो यस्मिन् , तत्प्राणारामम् । मन आनन्दम् , आनन्दभूतं सुखकृदेव यस्य मनः, तन्मन आनन्दम् । शान्तिसमृद्धम् , शान्तिरुपशमः, शान्तिश्च तत्समृद्धं च शान्तिसमृद्धम् ; शान्त्या वा समृद्धवत्तदुपलभ्यत इति शान्तिसमृद्धम् । अमृतम् अमरणधर्मि, एतच्चाधिकरणविशेषणं तत्रैव मनोमय इत्यादौ द्रष्टव्यमिति । एवं मनोमयत्वादिधर्मैर्विशिष्टं यथोक्तं ब्रह्म हे प्राचीनयोग्य, उपास्स्व इत्याचार्यवचनोक्तिरादरार्था । उक्तस्तूपासनाशब्दार्थः ॥
इति षष्ठोनुवाकभाष्यम् ॥
यदेतद्व्याहृत्यात्मकं ब्रह्मोपास्यमुक्तम् , तस्यैवेदानीं पृथिव्यादिपाङ्क्तस्वरूपेणोपासनमुच्यते -
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक् त्वक् । चर्म मांसंस्नावास्थि मज्जा । एतदधिविधाय ऋषिरवोचत् । पाङ्क्तं वा इदं सर्वम् । पाङ्क्तेनैव पाङ्क्तं स्पृणोतीति ॥ १ ॥
पञ्चसङ्ख्यायोगात्पङ्क्तिच्छन्दः सम्पक्तिः ; ततः पाङ्क्तत्वं सर्वस्य । पाङ्क्तश्च यज्ञः, ‘पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः’ इति श्रुतेः । तेन यत्सर्वं लोकाद्यात्मान्तं च पाङ्क्तं परिकल्पयति, यज्ञमेव तत्परिकल्पयति । तेन यज्ञेन परिकल्पितेन पाङ्क्तात्मकं प्रजापतिमभिसम्पद्यते । तत्कथं पाङ्क्तं वा इदं सर्वमित्यत आह - पृथिवी अन्तरिक्षं द्यौः दिशः अवान्तरदिशः इति लोकपाङ्क्तम् । अग्निः वायुः आदित्यः चन्द्रमाः नक्षत्राणि इति देवतापाङ्क्तम् । आपः ओषधयः वनस्पतयः आकाशः आत्मा इति भूतपाङ्क्तम् । आत्मेति विराट् , भूताधिकारात् । इत्यधिभूतमिति अधिलोकाधिदैवतपाङ्क्तद्वयोपलक्षणार्थम् , लोकदेवतापाङ्क्तयोर्द्वयोश्चाभिहितत्वात् । अथ अनन्तरम् अध्यात्मं पाङ्क्तत्रयमुच्यते - प्राणादि वायुपाङ्क्तम् । चक्षुरादि इन्द्रियपाङ्क्तम् । चर्मादि धातुपाङ्क्तम् । एतावद्धीदं सर्वमध्यात्मं बाह्यं च पाङ्क्तमेव इति एतत् एवम् अधिविधाय परिकल्प्य ऋषिः वेदः एतद्दर्शनसम्पन्नो वा कश्चिदृषिः, अवोचत् उक्तवान् । किमित्याह - पाङ्क्तं वा इदं सर्वं पाङ्क्तेनैव आध्यात्मिकेन, सङ्ख्यासामान्यात् , पाङ्क्तं बाह्यं स्पृणोति बलयति पूरयति एकात्मतयोपलभ्यत इत्येतत् । एवं पाङ्क्तमिदं सर्वमिति यो वेद, स प्रजापत्यात्मैव भवतीत्यर्थः ॥
इति सप्तमानुवाकभाष्यम् ॥
व्याहृत्यात्मनो ब्रह्मण उपासनमुक्तम् । अनन्तरं च पाङ्क्तस्वरूपेण तस्यैवोपासनमुक्तम् । इदानीं सर्वोपासनाङ्गभूतस्य ओङ्कारस्योपासनं विधित्स्यते ।
ओमिति ब्रह्म । ओमितीदं सर्वम् । ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति । ओमिति सामानि गायन्ति । ॐ शोमिति शस्त्राणि शंसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति । ब्रह्मैवोपाप्नोति ॥ १ ॥
परापरब्रह्मदृष्ट्या हि उपास्यमान ओङ्कारः शब्दमात्रोऽपि परापरब्रह्मप्राप्तिसाधनं भवति ; स ह्यालम्बनं ब्रह्मणः परस्यापरस्य च, प्रतिमेव विष्णोः, ‘एतेनैवायतनेनैकतरमन्वेति’ (प्र. उ. ५ । २) इति श्रुतेः । ओमिति, इतिशब्दः स्वरूपपरिच्छेदार्थः ; ॐ इत्येतच्छब्दरूपं ब्रह्म इति मनसा धारयेत् उपासीत ; यतः ॐ इति इदं सर्वं हि शब्दस्वरूपमोङ्कारेण व्याप्तम् , ‘तद्यथा शङ्कुना’ (छा. उ. २ । २३ । ३) इति श्रुत्यन्तरात् । ‘अभिधानतन्त्रं ह्यभिधेयम्’ इत्यतः इदं सर्वमोङ्कार इत्युच्यते । ओङ्कारस्तुत्यर्थ उत्तरो ग्रन्थः, उपास्यत्वात्तस्य । ॐ इत्येतत् अनुकृतिः अनुकरणम् । करोमि यास्यामि चेति कृतमुक्त ओमित्यनुकरोत्यन्यः, अतः ओङ्कारोऽनुकृतिः । ह स्म वै इति प्रसिद्धार्थद्योतकाः । प्रसिद्धं ह्योङ्कारस्यानुकृतित्वम् । अपि च ओश्रावय इति प्रैषपूर्वमाश्रावयन्ति प्रतिश्रावयन्ति । तथा ॐ इति सामानि गायन्ति सामगाः । ॐ शोमिति शस्त्राणि शंसन्ति शस्त्रशंसितारोऽपि । तथा ॐ इति अध्वर्युः प्रतिगरं प्रतिगृणाति । ॐ इति ब्रह्मा प्रसौति अनुजानाति । ॐ इति अग्निहोत्रम् अनुजानाति जुहोमीत्युक्ते ॐ इत्येव अनुज्ञां प्रयच्छति । ॐ इत्येव ब्राह्मणः प्रवक्ष्यन् प्रवचनं करिष्यन् अध्येष्यमाणः ओमित्याह ओमित्येव प्रतिपद्यते अध्येतुमित्यर्थः ; ब्रह्म वेदम् उपाप्नवानि इति प्राप्नुयां ग्रहीष्यामीति उपाप्नोत्येव ब्रह्म । अथवा, ब्रह्म परमात्मानम् उपाप्नवानीत्यात्मानं प्रवक्ष्यन् प्रापयिष्यन् ओमित्येवाह । स च तेनोङ्कारेण ब्रह्म प्राप्नोत्येव । ओङ्कारपूर्वं प्रवृत्तानां क्रियाणां फलवत्त्वं यस्मात् , तस्मादोङ्कारं ब्रह्मेत्युपासीतेति वाक्यार्थः ॥
इत्यष्टमानुवाकभाष्यम् ॥
विज्ञानादेवाप्नोति स्वाराज्यमित्युक्तत्वात् श्रौतस्मार्तानां कर्मणामानर्थक्यं प्राप्तमित्येतन्मा प्रापदिति कर्मणां पुरुषार्थं प्रति साधनत्वप्रदर्शनार्थ इहोपन्यासः -
ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्नयश्य स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च । सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ॥ १ ॥
ऋतमिति व्याख्यातम् । स्वाध्यायः अध्ययनम् । प्रवचनमध्यापनं ब्रह्मयज्ञो वा । एतानि ऋतादीनि, अनुष्ठेयानि इति वाक्यशेषः । सत्यं सत्यवचनं यथाव्याख्यातार्थं वा । तपः कृच्छ्रादि । दमः बाह्यकरणोपशमः । शमः अन्तःकरणोपशमः । अग्नयश्च आधातव्याः । अग्निहोत्रं च होतव्यम् । अतिथयश्च पूज्याः । मानुषमिति लौकिकः संव्यवहारः । तच्च यथाप्राप्तमनुष्ठेयम् । प्रजा च उत्पाद्या । प्रजनश्च प्रजननम् ; ऋतौ भार्यागमनमित्यर्थः । प्रजातिः पौत्रोत्पत्तिः ; पुत्रो निवेशयितव्य इत्येतत् । सर्वैरेतैः कर्मभिर्युक्तस्यापि स्वाध्यायप्रवचने यत्नतोऽनुष्ठेये इत्येवमर्थं सर्वेण सह स्वाध्यायप्रवचनग्रहणम् । स्वाध्यायाधीनं ह्यर्थज्ञानम् । अर्थज्ञानाधीनं च परं श्रेयः । प्रवचनं च तदविस्मरणार्थं धर्मवृद्ध्यर्थं च । ततः स्वाध्यायप्रवचनयोरादरः कार्यः । सत्यमिति सत्यमेवानुष्ठेयमिति सत्यवचाः सत्यमेव वचो यस्य सोऽयं सत्यवचाः, नाम वा तस्य ; राथीतरः रथीतरसगोत्रः राथीतर आचार्यो मन्यते । तप इति तप एव कर्तव्यमिति तपोनित्यः तपसि नित्यः तपःपरः, तपोनित्य इति वा नाम ; पौरुशिष्टिः पुरुशिष्टस्यापत्यं पौरुशिष्टिराचार्यो मन्यते । स्वाध्यायप्रवचने एव अनुष्ठेये इति नाको नामतः मुद्गलस्यापत्यं मौद्गल्य आचार्यो मन्यते । तद्धि तपस्तद्धि तपः । यस्मात्स्वाध्यायप्रवचने एव तपः, तस्मात्ते एवानुष्ठेये इति । उक्तानामपि सत्यतपःस्वाध्यायप्रवचनानां पुनर्ग्रहणमादरार्थम् ॥
इति नवमानुवाकभाष्यम् ॥
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणं सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥ १ ॥
अहं वृक्षस्य रेरिवेति स्वाध्यायार्थो मन्त्राम्नायः । स्वाध्यायश्च विद्योत्पत्तये, प्रकरणात् । विद्यार्थं हीदं प्रकरणम् , न च अन्यार्थत्वमवगम्यते । स्वाध्यायेन च विशुद्धसत्त्वस्य विद्योत्पत्तिरवकल्पते । अहं वृक्षस्य उच्छेद्यात्मकस्य संसारवृक्षस्य रेरिवा प्रेरयिता अन्तर्याम्यात्मना । कीर्तिः ख्यातिः गिरेः पृष्ठमिव उच्छ्रिता मम । ऊर्ध्वपवित्रः ऊर्ध्वं कारणं पवित्रं पावनं ज्ञानप्रकाश्यं परं ब्रह्म यस्य सर्वात्मनो मम, सोऽहमूर्ध्वपवित्रः ; वाजिनि इव वाजवतीव, वाजमन्नम् , तद्वति सवितरीवेत्यर्थः ; यथा सवितरि अमृतमात्मतत्त्वं विशुद्धं प्रसिद्धं श्रुतिस्मृतिशतेभ्यः, एवं सु अमृतं शोभनं विशुद्धमात्मतत्त्वम् अस्मि भवामि । द्रविणं धनं सवर्चसं दीप्तिमत् तदेव आत्मतत्त्वम् , अस्मीत्यनुवर्तते । ब्रह्मज्ञानं वा आत्मतत्त्वप्रकाशकत्वात्सवर्चसम् , द्रविणमिव द्रविणम् , मोक्षसुखहेतुत्वात् । अस्मिन्पक्षे प्राप्तं मयेत्यध्याहारः कर्तव्यः । सुमेधाः शोभना मेधा सर्वज्ञत्वलक्षणा यस्य मम, सोऽहं सुमेधाः, संसारस्थित्युत्पत्तिसंहारकौशलयोगात्सुमेधस्त्वम् ; अत एव अमृतः अमरणधर्मा, अक्षितः अक्षीणः अव्ययः अक्षतो वा, अमृतेन वा उक्षितः सिक्तः ‘अमृतोक्षितोऽहम्’ इत्यादि ब्राह्मणम् । इति एवं त्रिशङ्कोः ऋषेः ब्रह्मभूतस्य ब्रह्मविदः वेदानुवचनम् , वेदः वेदनम् आत्मैकत्वविज्ञानम् , तस्य प्राप्तिमनु वचनं वेदानुवचनम् ; आत्मनः कृतकृत्यताप्रख्यापनार्थं वामदेववत्त्रिशङ्कुना आर्षेण दर्शनेन दृष्टो मन्त्राम्नाय आत्मविद्याप्रकाशक इत्यर्थः । अस्य च जपो विद्योत्पत्त्यर्थोऽधिगम्यते । ‘ऋतं च’ इति धर्मोपन्यासादनन्तरं च वेदानुवचनपाठादेतदवगम्यते । एवं श्रौतस्मार्तेषु नित्येषु कर्मसु युक्तस्य निष्कामस्य परं ब्रह्म विविदिषोरार्षाणि दर्शनानि प्रादुर्भवन्त्यात्मादिविषयाणीति ॥
इति दशमानुवाकभाष्यम् ॥
वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥ १ ॥
देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि । यान्यस्माकं सुचरितानि । तानि त्वयोपास्यानि ॥ २ ॥
नो इतराणि । ये के चास्मच्छ्रेयांसो ब्राह्मणाः । तेषां त्वयासनेन प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धयादेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ॥ ३ ॥
ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ ४ ॥
वेदमनूच्येत्येवमादिकर्तव्यतोपदेशारम्भः प्राग्ब्रह्मात्मविज्ञानान्नियमेन कर्तव्यानि श्रौतस्मार्तानि कर्माणीत्येवमर्थः, अनुशासनश्रुतेः पुरुषसंस्कारार्थत्वात् । संस्कृतस्य हि विशुद्धसत्त्वस्य आत्मज्ञानमञ्जसैवोपजायते । ‘तपसा कल्मषं हन्ति विद्ययामृतमश्नुते’ (मनु. १२ । १०४) इति हि स्मृतिः । वक्ष्यति च - ‘तपसा ब्रह्म विजिज्ञासस्व’ (तै. उ. ३ । २ । १) इति । अतो विद्योत्पत्त्यर्थमनुष्ठेयानि कर्माणि । अनुशास्तीत्यनुशासनशब्दादनुशासनातिक्रमे हि दोषोत्पत्तिः । प्रागुपन्यासाच्च कर्मणाम् , केवलब्रह्मविद्यारम्भाच्च पूर्वं कर्माण्युपन्यस्तानि । उदितायां च ब्रह्मविद्यायाम् ‘अभयं प्रतिष्ठां विन्दते’ (तै. उ. २ । ७ । १) ‘न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) ‘किमहं साधु नाकरवम्’ (तै. उ. २ । ९ । १) इत्यादिना कर्मनैष्किञ्चन्यं दर्शयिष्यति । अतः अवगम्यते - पूर्वोपचितदुरितक्षयद्वारेण विद्योत्पत्त्यर्थानि कर्माणीति । मन्त्रवर्णाच्च - ‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. ११) इति ऋतादीनां पूर्वत्रोपदेशः आनर्थक्यपरिहारार्थः ; इह तु ज्ञानोत्पत्त्यर्थत्वात्कर्तव्यतानियमार्थः । वेदम् अनूच्य अध्याप्य आचार्यः अन्तेवासिनं शिष्यम् अनुशास्ति ग्रन्थग्रहणात् अनु पश्चात् शास्ति तदर्थं ग्राहयतीत्यर्थः । अतोऽवगम्यते अधीतवेदस्य धर्मजिज्ञासामकृत्वा गुरुकुलान्न समावर्तितव्यमिति । ‘बुद्ध्वा कर्माणि कुर्वीत’ इति स्मृतेश्च । कथमनुशास्तीत्यत आह - सत्यं वद यथाप्रमाणावगतं वक्तव्यं च वद । तद्वत् धर्मं चर ; धर्म इत्यनुष्ठेयानां सामान्यवचनम् , सत्यादिविशेषनिर्देशात् । स्वाध्यायात् अध्ययनात् मा प्रमदः प्रमादं मा कार्षीः । आचार्याय आचार्यार्थं प्रियम् इष्टं धनम् आहृत्य आनीय दत्त्वा विद्यानिष्क्रयार्थम् आचार्येण च अनुज्ञातः अनुरूपान्दारानाहृत्य प्रजातन्तुं प्रजासन्तानं मा व्यवच्छेत्सीः ; प्रजासन्ततेर्विच्छित्तिर्न कर्तव्या ; अनुत्पद्यमानेऽपि पुत्रे पुत्रकाम्यादिकर्मणा तदुत्पत्तौ यत्नः कर्तव्य इत्यभिप्रायः, प्रजाप्रजनप्रजातित्रयनिर्देशसामर्थ्यात् ; अन्यथा प्रजनश्चेत्येतदेकमेवावक्ष्यत् । सत्यात् न प्रमदितव्यं प्रमादो न कर्तव्यः ; सत्याच्च प्रमदनमनृतप्रसङ्गः ; प्रमादशब्दसामर्थ्याद्विस्मृत्याप्यनृतं न वक्तव्यमित्यर्थः ; अन्यथा असत्यवदनप्रतिषेध एव स्यात् । धर्मात् न प्रमदितव्यम् , धर्मशब्दस्यानुष्ठेयविशेषविषयत्वादननुष्ठानं प्रमादः, स न कर्तव्यः, अनुष्ठातव्य एव धर्म इति यावत् । एवं कुशलात् आत्मरक्षार्थात्कर्मणः न प्रमदितव्यम् । भूतिः विभूतिः, तस्यै भूत्यै भूत्यर्थान्मङ्गलयुक्तात्कर्मणः न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् , ते हि नियमेन कर्तव्ये इत्यर्थः । तथा देवपितृकार्याभ्यां न प्रमदितव्यम् , दैवपित्र्ये कर्मणी कर्तव्ये । मातृदेवः माता देवो यस्य सः, त्वं मातृदेवः भव स्याः । एवं पितृदेवो भव ; आचार्यदेवो भव ; अतिथिदेवो भव ; देवतावदुपास्या एते इत्यर्थः । यान्यपि च अन्यानि अनवद्यानि अनिन्दितानि शिष्टाचारलक्षणानि कर्माणि, तानि सेवितव्यानि कर्तव्यानि त्वया । नो न कर्तव्यानि इतराणि सावद्यानि शिष्टकृतान्यपि । यानि अस्माकम् आचार्याणां सुचरितानि शोभनचरितानि आम्नायाद्यविरुद्धानि, तान्येव त्वया उपास्यानि अदृष्टार्थान्यनुष्ठेयानि ; नियमेन कर्तव्यानीत्येतत् । नो इतराणि विपरीतान्याचार्यकृतान्यपि । ये के च विशेषिता आचार्यत्वादिधर्मैः अस्मत् अस्मत्तः श्रेयांसः प्रशस्ततराः, ते च ब्राह्मणाः, न क्षत्रियादयः, तेषाम् आसनेन आसनदानादिना त्वया प्रश्वसितव्यम् , प्रश्वसनं प्रश्वासः श्रमापनयः ; तेषां श्रमस्त्वया अपनेतव्य इत्यर्थः । तेषां वा आसने गोष्ठीनिमित्ते समुदिते, तेषु न प्रश्वसितव्यं प्रश्वासोऽपि न कर्तव्यः ; केवलं तदुक्तसारग्राहिणा भवितव्यम् । किं च, यत्किञ्चिद्देयम् , तत् श्रद्धयैव दातव्यम् । अश्रद्धया अदेयं न दातव्यम् । श्रिया विभूत्या देयं दातव्यम् । ह्रिया लज्जया च देयम् । भिया भीत्या च देयम् । संविदा च मैत्र्य्यादिकार्येण देयम् । अथ एवं वर्तमानस्य यदि कदाचित् ते तव श्रौते स्मार्ते वा कर्मणि वृत्ते वा आचारलक्षणे विचिकित्सा संशयः स्यात् भवेत् , ये तत्र तस्मिन्देशे काले वा ब्राह्मणाः तत्र कर्मादौ युक्ता इति व्यवहितेन सम्बन्धः कर्तव्यः ; संमर्शिनः विचारक्षमाः, युक्ताः अभियुक्ताः, कर्मणि वृत्ते वा आयुक्ताः अपरप्रयुक्ताः, अलूक्षाः अरूक्षाः अक्रूरमतयः, धर्मकामाः अदृष्टार्थिनः अकामहता इत्येतत् ; स्युः भवेयुः, ते ब्राह्मणाः यथा येन प्रकारेण तत्र तस्मिन्कर्मणि वृत्ते वा वर्तेरन् , तथा त्वमपि वर्तेथाः । अथ अभ्याख्यातेषु, अभ्याख्याता अभ्युक्ताः दोषेण सन्दिह्यमानेन संयोजिताः केनचित् , तेषु च ; यथोक्तं सर्वमुपनयेत् - ये तत्रेत्यादि । एषः आदेशः विधिः । एषः उपदेशः पुत्रादिभ्यः पित्रादीनामपि । एषा वेदोपनिषत् वेदरहस्यम् , वेदार्थ इत्येतत् । एतदेव अनुशासनम् ईश्वरवचनम् , आदेशवाच्यस्य विधेरुक्तत्वात् । सर्वेषां वा प्रमाणभूतानामनुशासनमेतत् । यस्मादेवम् , तस्मात् एवं यथोक्तं सर्वम् उपासितव्यं कर्तव्यम् । एवमु च एतत् उपास्यम् उपास्यमेव चैतत् नानुपास्यम् इत्यादरार्थं पुनर्वचनम् ॥
अत्रैतच्चिन्त्यते विद्याकर्मणोर्विवेकार्थम् - किं कर्मभ्य एव केवलेभ्यः परं श्रेयः, उत विद्यासंव्यपेक्षेभ्यः, आहोस्विद्विद्याकर्मभ्यां संहताभ्याम् , विद्याया वा कर्मापेक्षायाः, उत केवलाया एव विद्याया इति । तत्र केवलेभ्य एव कर्मभ्यः स्यात् , समस्तवेदार्थज्ञानवतः कर्माधिकारात् ‘वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’ इति स्मरणात् । अधिगमश्च सहोपनिषदर्थेनात्मज्ञानादिना । ‘विद्वान्यजते’ ‘विद्वान्याजयति’ इति च विदुष एव कर्मण्यधिकारः प्रदर्श्यते सर्वत्र ज्ञात्वानुष्ठानमिति च । कृत्स्नश्च वेदः कर्मार्थ इति हि मन्यन्ते केचित् । कर्मभ्यश्चेत्परं श्रेयो नावाप्यते, वेदोऽनर्थकः स्यात् । न ; नित्यत्वान्मोक्षस्य । नित्यो हि मोक्ष इष्यते । कर्मकार्यस्य चानित्यत्वं प्रसिद्धं लोके । कर्मभ्यश्चेच्छ्रेयः, अनित्यं स्यात् ; तच्चानिष्टम् । ननु काम्यप्रतिषिद्धयोरनारम्भात् आरब्धस्य च कर्मण उपभोगेनैव क्षयात् नित्यानुष्ठानाच्च प्रत्यवायानुपपत्तेः ज्ञाननिरपेक्ष एव मोक्ष इति चेत् , तच्च न, कर्मशेषसम्भवात्तन्निमित्ता शरीरान्तरोत्पत्तिः प्राप्नोतीति प्रत्युक्तम् ; कर्मशेषस्य च नित्यानुष्ठानेनाविरोधात्क्षयानुपपत्तिरिति च । यदुक्तं समस्तवेदार्थज्ञानवतः कर्माधिकारादित्यादि, तच्च न ; श्रुतज्ञानव्यतिरेकादुपासनस्य । श्रुतज्ञानमात्रेण हि कर्मण्यधिक्रियते, नोपासनज्ञानमपेक्षते । उपासनं च श्रुतज्ञानादर्थान्तरं विधीयते मोक्षफलम् ; अर्थान्तरप्रसिद्धेश्च स्यात् ; ‘श्रोतव्यः’ इत्युक्त्वा तद्व्यतिरेकेण ‘मन्तव्यो निदिध्यासितव्यः’ इति यत्नान्तरविधानात् मनननिदिध्यासनयोश्च प्रसिद्धं श्रवणज्ञानादर्थान्तरत्वम् । एवं तर्हि विद्यासंव्यपेक्षेभ्यः कर्मभ्यः स्यान्मोक्षः ; विद्यासहितानां च कर्मणां भवेत्कार्यान्तरारम्भसामर्थ्यम् ; यथा स्वतो मरणज्वरादिकार्यारम्भसमर्थानामपि विषदध्यादीनां मन्त्रसशर्करादिसंयुक्तानां कार्यान्तरारम्भसामर्थ्यम् , एवं विद्याहितैः कर्मभिः मोक्ष आरभ्यत इति चेत् , न ; आरभ्यस्यानित्यत्वादित्युक्तो दोषः । वचनादारभ्योऽपि नित्य एवेति चेत् , न ; ज्ञापकत्वाद्वचनस्य । वचनं नाम यथाभूतस्यार्थस्य ज्ञापकम् , नाविद्यमानस्य कर्तृ । न हि वचनशतेनापि नित्यमारभ्यते, आरब्धं वा अविनाशि भवेत् । एतेन विद्याकर्मणोः संहतयोर्मोक्षारम्भकत्वं प्रत्युक्तम् ॥
विद्याकर्मणी मोक्षप्रतिबन्धहेतुनिवर्तके इति चेत् , न ; कर्मणः फलान्तरदर्शनात् । उत्पत्तिविकारसंस्काराप्तयो हि फलं कर्मणो दृश्यन्ते । उत्पत्त्यादिफलविपरीतश्च मोक्षः । गतिश्रुतेराप्य इति चेत् - ‘सूर्यद्वारेण’ ‘तयोर्ध्वमायन्’ (क. उ. २ । ३ । १६) इत्येवमादिगतिश्रुतिभ्यः प्राप्यो मोक्ष इति चेत् , न ; सर्वगतत्वात् गन्तृभ्यश्चानन्यत्वात् । आकाशादिकारणत्वात्सर्वगतं ब्रह्म, ब्रह्माव्यतिरिक्ताश्च सर्वे विज्ञानात्मानः ; अतो नाप्यो मोक्षः । गन्तुरन्यद्विभिन्नदेशं च भवति गन्तव्यम् । न हि, येनैवाव्यतिरिक्तं यत् , तत्तेनैव गम्यते । तदनन्यत्वसिद्धिश्च ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु’ (भ. गी. १३ । २) इत्येवमादिश्रुतिस्मृतिशतेभ्यः । गत्यैश्वर्यादिश्रुतिविरोध इति चेत् - अथापि स्यात् यद्यप्राप्यो मोक्षः, तदा गतिश्रुतीनाम् ‘स एकधा’ (छा. उ. ७ । २६ । २) ‘स यदि पितृलोककामः भवति’ (छा. उ. ८ । २ । १) ‘स्त्रीभिर्वा यानैर्वा’ (छा. उ. ८ । १२ । ३) इत्यादिश्रुतीनां च कोपः स्यात् इति चेत् , न ; कार्यब्रह्मविषयत्वात्तासाम् । कार्ये हि ब्रह्मणि स्त्र्यादयः स्युः, न कारणे ; ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘यत्र नान्यत्पश्यति’ (छा. उ. ७ । २४ । १) ‘तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४)(बृ. उ. ४ । ५ । १५) इत्यादिश्रुतिभ्यः । विरोधाच्च विद्याकर्मणोः समुच्चयानुपपत्तिः । प्रलीनकर्त्रादिकारकविशेषतत्त्वविषया हि विद्या तद्विपरीतकारकसाध्येन कर्मणा विरुध्यते । न ह्येकं वस्तु परमार्थतः कर्त्रादिविशेषवत् तच्छून्यं चेति उभयथा द्रष्टुं शक्यते । अवश्यं ह्यन्तरन्मिथ्या स्यात् । अन्यतरस्य च मिथ्यात्वप्रसङ्गे युक्तं यत्स्वाभाविकाज्ञानविषयस्य द्वैतस्य मिथ्यात्वम् ; ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. २ । ४ । १४) ‘मृत्योः स मृत्युमाप्नोति’ (क. उ. २ । १ । १०)(बृ. उ. ४ । ४ । १९) ‘अथ यत्रान्यत्पश्यति तदल्पम्’ (छा. उ. ७ । २४ । १) ‘अन्योऽसावन्योऽहमस्मि’ (बृ. उ. १ । ४ । १०) ‘उदरमन्तरं कुरुते’ ‘अथ तस्य भयं भवति’ (तै. उ. २ । ७ । १) इत्यादिश्रुतिशतेभ्यः । सत्यत्वं च एकत्वस्य ‘एकधैवानुद्रष्टव्यम्’ (बृ. उ. ४ । ४ । २०) ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘ब्रह्मैवेदं सर्वम्’ ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यः । न च सम्प्रदानादिकारकभेदादर्शने कर्मोपपद्यते । अन्यत्वदर्शनापवादाश्च विद्याविषये सहस्रशः श्रूयन्ते । अतो विरोधो विद्याकर्मणोः । अतश्च समुच्चयानुपपत्तिः ॥
तत्र यदुक्तं संहताभ्यां विद्याकर्मभ्यां मोक्ष इत्येतदनुपपन्नमिति, तदयुक्तम् , तद्विहितत्वात्कर्मणां श्रुतिविरोध इति चेत् - यद्युपमृद्य कर्त्रादिकारकविशेषमात्मैकत्वविज्ञानं विधीयते सर्पादिभ्रान्तिज्ञानोपमर्दकरज्ज्वादिविषयविज्ञानवत् , प्राप्तः कर्मविधिश्रुतीनां निर्विषयत्वाद्विरोधः । विहितानि च कर्माणि । स च विरोधो न युक्तः, प्रमाणत्वाच्छ्रुतीनामिति चेत् , न ; पुरुषार्थोपदेशपरत्वाच्छ्रुतीनाम् । विद्योपदेशपरा तावच्छ्रुतिः संसारात्पुरुषो मोक्षयितव्य इति संसारहेतोरविद्यायाः विद्यया निवृत्तिः कर्तव्येति विद्याप्रकाशकत्वेन प्रवृत्तेति न विरोधः । एवमपि कर्त्रादिकारकसद्भावप्रतिपादनपरं शास्त्रं विरुध्यत एवेति चेत् , न ; यथाप्राप्तमेव कारकास्तित्वमुपादाय उपात्तदुरितक्षयार्थं कर्माणि विदधच्छास्त्रं मुमुक्षूणां फलार्थिनां च फलसाधनं न कारकास्तित्वे व्याप्रियते । उपचितदुरितप्रतिबन्धस्य हि विद्योत्पत्तिर्नावकल्पते । तत्क्षये च विद्योत्पत्तिः स्यात् , ततश्चाविद्यानिवृत्तिः, तत आत्यन्तिकः संसारोपरमः । अपि च, अनात्मदर्शिनो ह्यनात्मविषयः कामः ; कामयमानश्च करोति कर्माणि ; ततस्तत्फलोपभोगाय शरीराद्युपादानलक्षणः संसारः । तद्व्यतिरेकेणात्मैकत्वदर्शिनो विषयाभावात्कामानुपपत्तिः, आत्मनि चानन्यत्वात्कामानुपपत्तौ स्वात्मन्यवस्थानं मोक्ष इत्यतोऽपि विद्याकर्मणोर्विरोधः । विरोधादेव च विद्या मोक्षं प्रति न कर्माण्यपेक्षते । स्वात्मलाभे तु पूर्वोपचितदुरितप्रतिबन्धापनयनद्वारेण विद्याहेतुत्वं प्रतिपद्यन्ते कर्माणि नित्यानीति । अत एवास्मिन्प्रकरणे उपन्यस्तानि कर्माणीत्यवोचाम । एवं च अविरोधः कर्मविधिश्रुतीनाम् । अतः केवलाया एव विद्यायाः परं श्रेय इति सिद्धम् ॥
एवं तर्हि आश्रमान्तरानुपपत्तिः, कर्मनिमित्तत्वाद्विद्योत्पत्तेः । गृहस्थस्यैव विहितानि कर्माणीत्यैकाश्रम्यमेव । अतश्च यावज्जीवादिश्रुतयः अनुकूलतराः स्युः । न ; कर्मानेकत्वात् । न ह्यग्निहोत्रादीन्येव कर्माणि, ब्रह्मचर्यं तपः सत्यवचनं शमः दमः अहिंसा इत्येवमादीन्यपि कर्माणि इतराश्रमप्रसिद्धानि विद्योत्पत्तौ साधकतमान्यसङ्कीर्णा विद्यन्ते ध्यानधारणादिलक्षणानि च । वक्ष्यति च - ‘तपसा ब्रह्म विजिज्ञासस्व’ (तै. उ. ३ । २ । १) इति । जन्मान्तरकृतकर्मभ्यश्च प्रागपि गार्हस्थ्याद्विद्योत्पत्तिसम्भवात् , कर्मार्थत्वाच्च गार्हस्थ्यप्रतिपत्तेः, कर्मसाध्यायां च विद्यायां सत्यां गार्हस्थ्यप्रतिपत्तिरनर्थिकैव । लोकार्थत्वाच्च पुत्रादीनाम् । पुत्रादिसाध्येभ्यश्च अयं लोकः पितृलोको देवलोक इत्येतेभ्यो व्यावृत्तकामस्य, नित्यसिद्धात्मदर्शिनः, कर्मणि प्रयोजनमपश्यतः, कथं प्रवृत्तिरुपपद्यते ? प्रतिपन्नगार्हस्थ्यस्यापि विद्योत्पत्तौ विद्यापरिपाकाद्विरक्तस्य कर्मसु प्रयोजनमपश्यतः कर्मभ्यो निवृत्तिरेव स्यात् , ‘प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि’ (बृ. उ. ४ । ५ । २) इत्येवमादिश्रुतिलिङ्गदर्शनात् । कर्म प्रति श्रुतेर्यत्नाधिक्यदर्शनादयुक्तमिति चेत् , - अग्निहोत्रादिकर्म प्रति श्रुतेरधिको यत्नः ; महांश्च कर्मण्यायासः, अनेकसाधनसाध्यत्वादग्निहोत्रादीनाम् ; तपोब्रह्मचर्यादीनां च इतराश्रमकर्मणां गार्हस्थ्येऽपि समानत्वादल्पसाधनापेक्षत्वाच्चेतरेषां न युक्तस्तुल्यवद्विकल्प आश्रमिभिस्तस्य इति चेत् , न ; जन्मान्तरकृतानुग्रहात् । यदुक्तं कर्मणि श्रुतेरधिको यत्न इत्यादि, नासौ दोषः, यतो जन्मान्तरकृतमप्यग्निहोत्रादिलक्षणं कर्म ब्रह्मचर्यादिलक्षणं चानुग्राहकं भवति विद्योत्पत्तिं प्रति ; येन च जन्मनैव विरक्ता दृश्यन्ते केचित् ; केचित्तु कर्मसु प्रवृत्ता अविरक्ता विद्याविद्वेषिणः । तस्माज्जन्मान्तरकृतसंस्कारेभ्यो विरक्तानामाश्रमान्तरप्रतिपत्तिरेवेष्यते । कर्मफलबाहुल्याच्च । पुत्रस्वर्गब्रह्मवर्चसादिलक्षणस्य कर्मफलस्यासङ्ख्येयत्वात् तत्प्रति च पुरुषाणां कामबाहुल्यात्तदर्थः श्रुतेरधिको यत्नः कर्मसूपपद्यते, आशिषां बाहुल्यदर्शनात् - इदं मे स्यादिदं मे स्यादिति । उपायत्वाच्च । उपायभूतानि हि कर्माणि विद्यां प्रति इत्यवोचाम । उपाये च अधिको यत्नः कर्तव्यः, न उपेये । कर्मनिमित्तत्वाद्विद्याया यत्नान्तरानर्थक्यमिति चेत् - कर्मभ्य एव पूर्वोपचितदुरितप्रतिबन्धक्षयाद्विद्योत्पद्यते चेत् , कर्मभ्यः पृथगुपनिषच्छ्रवणादियत्नोऽनर्थक इति चेत् , न ; नियमाभावात् । न हि, ‘प्रतिबन्धक्षयादेव विद्योत्पद्यते, न त्वीश्वरप्रसादतपोध्यानाद्यनुष्ठानात्’ इति नियमोऽस्ति ; अहिंसाब्रह्मचर्यादीनां च विद्यां प्रत्युपकारकत्वात् , साक्षादेव च कारणत्वाच्छ्रवणमनननिदिध्यासनादीनाम् । अतः सिद्धान्याश्रमान्तराणि । सर्वेषां चाधिकारो विद्यायाम् , परं च श्रेयः केवलाया विद्याया एवेति सिद्धम् ॥
इत्येकादशानुवाकभाष्यम् ॥
अतीतविद्याप्राप्त्युपसर्गशमनार्थां शान्तिं पठति -
शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् । आवीन्माम् । आवीद्वक्तारम् ॥
शं नो मित्र इत्यादि । व्याख्यातमेतत्पूर्वम् ॥
इति द्वादशानुवाकभाष्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये शीक्षावल्लीभाष्यम् सम्पूर्णम् ॥
अतीतविद्याप्राप्त्युपसर्गप्रशमनार्था शान्तिः पठिता । इदानीं तु वक्ष्यमाणब्रह्मविद्याप्राप्त्युपसर्गोपशमनार्था शान्तिः पठ्यते -
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
सह नाववत्विति । सह नाववतु, नौ शिष्याचार्यौ सहैव अवतु रक्षतु । सह नौ भुनक्तु ब्रह्म भोजयतु । सह वीर्यं विद्यानिमित्तं सामर्थ्यं करवावहै निर्वर्तयावहै । तेजस्वि नौ तेजस्विनोरावयोः अधीतं स्वधीतम् अस्तु अर्थज्ञानयोग्यमस्त्वित्यर्थः । मा विद्विषावहै, विद्याग्रहणनिमित्तं शिष्यस्य आचार्यस्य वा प्रमादकृतादन्यायाद्विद्वेषः प्राप्तः ; तच्छमनायेयमाशीः - मा विद्विषावहै इति । मैव नावितरेतरं विद्वेषमापद्यावहै । शान्तिः शान्तिः शान्तिरिति त्रिर्वचनमुक्तार्थम् । वक्ष्यमाणविद्याविघ्नप्रशमनार्था चेयं शान्तिः । अविघ्नेनात्मविद्याप्राप्तिराशास्यते, तन्मूलं हि परं श्रेय इति ॥
संहितादिविषयाणि कर्मभिरविरुद्धान्युपासनान्युक्तानि । अनन्तरं च अन्तःसोपाधिकमात्मदर्शनमुक्तं व्याहृतिद्वारेण स्वाराज्यफलम् । न चैतावता अशेषतः संसारबीजस्य उपमर्दनमस्ति । अतः अशेषोपद्रवबीजस्य अज्ञानस्य निवृत्त्यर्थं विधूतसर्वोपाधिविशेषात्मदर्शनार्थमिदमारभ्यते -
ब्रह्मविदाप्नोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
ब्रह्मविदाप्नोति परमित्यादि । प्रयोजनं चास्या ब्रह्मविद्याया अविद्यानिवृत्तिः, ततश्च आत्यन्तिकः संसाराभावः । वक्ष्यति च - ‘विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) इति । संसारनिमित्ते च सति अभयं प्रतिष्ठां विन्दत इत्यनुपपन्नम् , कृताकृते पुण्यपापे न तपत इति च । अतोऽवगम्यते - अस्माद्विज्ञानात्सर्वात्मब्रह्मविषयादात्यन्तिकः संसाराभाव इति । स्वयमेवाह प्रयोजनम् ‘ब्रह्मविदाप्नोति परम्’ इत्यादावेव सम्बन्धप्रयोजनज्ञापनार्थम् । निर्ज्ञातयोर्हि सम्बन्धप्रयोजनयोः विद्याश्रवणग्रहणधारणाभ्यासार्थं प्रवर्तते । श्रवणादिपूर्वकं हि विद्याफलम् , ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इत्यादिश्रुत्यन्तरेभ्यः । ब्रह्मवित् , ब्रह्मेति वक्ष्यमाणलक्षणम् , बृहत्तमत्वात् ब्रह्म, तद्वेत्ति विजानातीति ब्रह्मवित् , आप्नोति प्राप्नोति परं निरतिशयम् ; तदेव ब्रह्म परम् ; न ह्यन्यस्य विज्ञानादन्यस्य प्राप्तिः । स्पष्टं च श्रुत्यन्तरं ब्रह्मप्राप्तिमेव ब्रह्मविदो दर्शयति - ‘स यो हि वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इत्यादि ॥
ननु, सर्वगतं सर्वस्य चात्मभूतं ब्रह्म वक्ष्यति । अतो नाप्यम् । आप्तिश्च अन्यस्यान्येन परिच्छिन्नस्य च परिच्छिन्नेन दृष्टा । अपरिच्छिन्नं सर्वात्मकं च ब्रह्मेत्यतः परिच्छिन्नवत् अनात्मवच्च तस्याप्तिरनुपपन्ना । नायं दोषः । कथम् ? दर्शनादर्शनापेक्षत्वाद्ब्रह्मण आप्त्यनाप्त्योः, परमार्थतो ब्रह्मस्वरूपस्यापि सतः अस्य जीवस्य भूतमात्राकृतबाह्यपरिच्छिन्नान्नमयाद्यात्मदर्शिनः तदासक्तचेतसः । प्रकृतसङ्ख्यापूरणस्यात्मनः अव्यवहितस्यापि बाह्यसङ्ख्येयविषयासक्तचित्ततया स्वरूपाभावदर्शनवत् परमार्थब्रह्मस्वरूपाभावदर्शनलक्षणया अविद्यया अन्नमयादीन्बाह्याननात्मन आत्मत्वेन प्रतिपन्नत्वात् अन्नमयाद्यनात्मभ्यो नान्योऽहमस्मीत्यभिमन्यते । एवमविद्यया आत्मभूतमपि ब्रह्म अनाप्तं स्यात् । तस्यैवमविद्यया अनाप्तब्रह्मस्वरूपस्य प्रकृतसङ्ख्यापूरणस्यात्मनः अविद्ययानाप्तस्य सतः केनचित्स्मारितस्य पुनस्तस्यैव विद्यया आप्तिर्यथा, तथा श्रुत्युपदिष्टस्य सर्वात्मब्रह्मण आत्मत्वदर्शनेन विद्यया तदाप्तिरुपपद्यत एव । ब्रह्मविदाप्नोति परमिति वाक्यं सूत्रभूतं सर्वस्य वल्ल्यर्थस्य । ब्रह्मविदाप्नोति परमित्यनेन वाक्येन वेद्यतया सूत्रितस्य ब्रह्मणोऽनिर्धारितस्वरूपविशेषस्य सर्वतो व्यावृत्तस्वरूपविशेषसमर्पणसमर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणाय अविशेषेण च उक्तवेदनस्य ब्रह्मणो वक्ष्यमाणलक्षणस्य विशेषेण प्रत्यगात्मतया अनन्यरूपेण विज्ञेयत्वाय, ब्रह्मविद्याफलं च ब्रह्मविदो यत्परप्राप्तिलक्षणमुक्तम् , स सर्वात्मभावः सर्वसंसारधर्मातीतब्रह्मस्वरूपत्वमेव, नान्यदित्येतत्प्रदर्शनाय च एषा ऋगुदाह्रियते - तदेषाभ्युक्तेति । तत् तस्मिन्नेव ब्राह्मणवाक्योक्तार्थे एषा ऋक् अभ्युक्ता आम्नाता । सत्यं ज्ञानमनन्तं ब्रह्म इति ब्रह्मणो लक्षणार्थं वाक्यम् । सत्यादीनि हि त्रीणि विशेषणार्थानि पदानि विशेष्यस्य ब्रह्मणः । विशेष्यं ब्रह्म, विवक्षितत्वाद्वेद्यतया । वेद्यत्वेन यतो ब्रह्म प्राधान्येन विवक्षितम् , तस्माद्विशेष्यं विज्ञेयम् । अतः अस्माद्विशेषणविशेष्यत्वादेव सत्यादीनि एकविभक्त्यन्तानि पदानि समानाधिकरणानि । सत्यादिभिस्त्रिभिर्विशेषणैर्विशेष्यमाणं ब्रह्म विशेष्यान्तरेभ्यो निर्धार्यते । एवं हि तज्ज्ञातं भवति, यदन्येभ्यो निर्धारितम् ; यथा लोके नीलं महत्सुगन्ध्युत्पलमिति । ननु, विशेष्यं विशेषणान्तरं व्यभिचरद्विशेष्यते, यथा नीलं रक्तं चोत्पलमिति ; यदा ह्यनेकानि द्रव्याणि एकजातीयान्यनेकविशेषणयोगीनि च, तदा विशेषणस्यार्थवत्त्वम् ; न ह्येकस्मिन्नेव वस्तुनि, विशेषणान्तरायोगात् ; यथा असावेक आदित्य इति, तथा एकमेव ब्रह्म, न ब्रह्मान्तराणि, येभ्यो विशेष्येत नीलोत्पलवत् । न ; लक्षणार्थत्वाद्विशेषणानाम् । नायं दोषः । कस्मात् ? लक्षणार्थप्रधानानि विशेषणानि, न विशेषणप्रधानान्येव । कः पुनर्लक्षणलक्ष्ययोर्विशेषणविशेष्ययोर्वा विशेषः ? उच्यते । सजातीयेभ्य एव निवर्तकानि विशेषणानि विशेष्यस्य ; लक्षणं तु सर्वत एव, यथा अवकाशप्रदात्राकाशमिति । लक्षणार्थं च वाक्यमित्यवोचाम ॥
सत्यादिशब्दा न परस्परं सम्बध्यन्ते, परार्थत्वात् ; विशेष्यार्था हि ते । अत एव एकैको विशेषणशब्दः परस्परं निरपेक्षो ब्रह्मशब्देन सम्बध्यते - सत्यं ब्रह्म ज्ञानं ब्रह्म अनन्तं ब्रह्मेति । सत्यमिति यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति, तत्सत्यम् । यद्रूपेण यन्निश्चितं तद्रूपं व्यभिचरति, तदनृतमित्युच्यते । अतो विकारोऽनृतम् , ‘ वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) एवं सदेव सत्यमित्यवधारणात् । अतः ‘सत्यं ब्रह्म’ इति ब्रह्म विकारान्निवर्तयति । अतः कारणत्वं प्राप्तं ब्रह्मणः । कारणस्य च कारकत्वम् , वस्तुत्वात् मृद्वत् अचिद्रूपता च प्राप्ता ; अत इदमुच्यते - ज्ञानं ब्रह्मेति । ज्ञानं ज्ञप्तिः अवबोधः, - भावसाधनो ज्ञानशब्दः - न तु ज्ञानकर्तृ, ब्रह्मविशेषणत्वात्सत्यानन्ताभ्यां सह । न हि सत्यता अनन्तता च ज्ञानकर्तृत्वे सत्युपपद्येते । ज्ञानकर्तृत्वेन हि विक्रियमाणं कथं सत्यं भवेत् , अनन्तं च ? यद्धि न कुतश्चित्प्रविभज्यते, तदनन्तम् । ज्ञानकर्तृत्वे च ज्ञेयज्ञानाभ्यां प्रविभक्तमित्यनन्तता न स्यात् , ‘यत्र नान्यद्विजानाति स भूमा, अथ यत्रान्यद्विजानाति तदल्पम्’ (छा. उ. ७ । २४ । १) इति श्रुत्यन्तरात् । ‘नान्यद्विजानाति’ इति विशेषप्रतिषेधात् आत्मानं विजानातीति चेत् , न ; भूमलक्षणविधिपरत्वाद्वाक्यस्य । ‘यत्र नान्यत्पश्यति’ इत्यादि भूम्नो लक्षणविधिपरं वाक्यम् । यथाप्रसिद्धमेव अन्योऽन्यत्पश्यतीत्येतदुपादाय यत्र तन्नास्ति, स भूमा इति भूमस्वरूपं तत्र ज्ञाप्यते । अन्यग्रहणस्य प्राप्तप्रतिषेधार्थत्वात् न स्वात्मनि क्रियास्तित्वपरं वाक्यम् । स्वात्मनि च भेदाभावाद्विज्ञानानुपपत्तिः । आत्मनश्च विज्ञेयत्वे ज्ञात्रभावप्रसङ्गः, ज्ञेयत्वेनैव विनियुक्तत्वात् ॥
एक एवात्मा ज्ञेयत्वेन ज्ञातृत्वेन च उभयथा भवतीति चेत् , न ; युगपदनंशत्वात् । न हि निरवयवस्य युगपज्ज्ञेयज्ञातृत्वोपपत्तिः । आत्मनश्च घटादिवद्विज्ञेयत्वे ज्ञानोपदेशानर्थक्यम् । न हि घटादिवत्प्रसिद्धस्य ज्ञानोपदेशः अर्थवान् । तस्मात् ज्ञातृत्वे सति आनन्त्यानुपपत्तिः । सन्मात्रत्वं चानुपपन्नं ज्ञानकर्तृत्वादिविशेषवत्त्वे सति ; सन्मात्रत्वं च सत्यम् , ‘तत् सत्यम्’ (छा. उ. ६ । ८ । १६) इति श्रुत्यन्तरात् । तस्मात्सत्यानन्तशब्दाभ्यां सह विशेषणत्वेन ज्ञानशब्दस्य प्रयोगाद्भावसाधनो ज्ञानशब्दः । ‘ज्ञानं ब्रह्म’ इति कर्तृत्वादिकारकनिवृत्त्यर्थं मृदादिवदचिद्रूपतानिवृत्त्यर्थं च प्रयुज्यते । ‘ज्ञानं ब्रह्म’ इति वचनात्प्राप्तमन्तवत्त्वम् , लौकिकस्य ज्ञानस्य अन्तवत्त्वदर्शनात् । अतः तन्निवृत्त्यर्थमाह - अनन्तमिति । सत्यादीनामनृतादिधर्मनिवृत्तिपरत्वाद्विशेष्यस्य च ब्रह्मणः उत्पलादिवदप्रसिद्धत्वात् ‘मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः । एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः’ इतिवत् शून्यार्थतैव प्राप्ता सत्यादिवाक्यस्येति चेत् , न ; लक्षणार्थत्वात् । विशेषणत्वेऽपि सत्यादीनां लक्षणार्थप्राधान्यमित्यवोचाम । शून्ये हि लक्ष्ये अनर्थकं लक्षणवचनम् । अतः लक्षणार्थत्वान्मन्यामहे न शून्यार्थतेति । विशेषणार्थत्वेऽपि च सत्यादीनां स्वार्थापरित्याग एव । शून्यार्थत्वे हि सत्यादिशब्दानां विशेष्यनियन्तृत्वानुपपत्तिः । सत्याद्यर्थैरर्थवत्त्वे तु तद्विपरीतधर्मवद्भ्यो विशेष्येभ्यो ब्रह्मणो विशेष्यस्य नियन्तृत्वमुपपद्यते । ब्रह्मशब्दोऽपि स्वार्थेनार्थवानेव । तत्र अनन्तशब्दः अन्तवत्त्वप्रतिषेधद्वारेण विशेषणम् । सत्यज्ञानशब्दौ तु स्वार्थसमर्पणेनैव विशेषणे भवतः ॥
‘तस्माद्वा एतस्मादात्मनः’ इति ब्रह्मण्येव आत्मशब्दप्रयोगात् वेदितुरात्मैव ब्रह्म । ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५) इति च आत्मतां दर्शयति । तत्प्रवेशाच्च ; ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) इति च तस्यैव जीवरूपेण शरीरप्रवेशं दर्शयति । अतो वेदितुः स्वरूपं ब्रह्म । एवं तर्हि, आत्मत्वाज्ज्ञानकर्तृत्वम् ; ‘आत्मा ज्ञाता’ इति हि प्रसिद्धम् , ‘सोऽकामयत’ (तै. उ. २ । ६ । १) इति च कामिनो ज्ञानकर्तृत्वप्रसिद्धिः ; अतो ज्ञानकर्तृत्वात् ज्ञप्तिर्ब्रह्मेत्ययुक्तम् ; अनित्यत्वप्रसङ्गाच्च ; यदि नाम ज्ञप्तिर्ज्ञानमिति भावरूपता ब्रह्मणः, तदाप्यनित्यत्वं प्रसज्येत ; पारतन्त्र्यं च, धात्वर्थानां कारकापेक्षत्वात् , ज्ञानं च धात्वर्थः ; अतोऽस्य अनित्यत्वं परतन्त्रता च । न ; स्वरूपाव्यतिरेकेण कार्यत्वोपचारात् । आत्मनः स्वरूपं ज्ञप्तिः न ततो व्यतिरिच्यते । अतो नित्यैव । तथापि बुद्धेरुपाधिलक्षणायाश्चक्षुरादिद्वारैर्विषयाकारपरिणामिन्याः ये शब्दाद्याकारावभासाः, ते आत्मविज्ञानस्य विषयभूता उत्पद्यमाना एव आत्मविज्ञानेन व्याप्ता उत्पद्यन्ते । तस्मादात्मविज्ञानावभास्याश्च ते विज्ञानशब्दवाच्याश्च धात्वर्थभूता आत्मन एव धर्मा विक्रियारूपा इत्यविवेकिभिः परिकल्प्यन्ते । यत्तु ब्रह्मणो विज्ञानम् , तत् सवितृप्रकाशवत् अग्न्युष्णत्ववच्च ब्रह्मस्वरूपाव्यतिरिक्तं स्वरूपमेव तत् । न तत्कारणान्तरसव्यपेक्षम् , नित्यस्वरूपत्वात् , सर्वभावानां च तेनाविभक्तदेशकालत्वात् कालाकाशादिकारणत्वात् निरतिशयसूक्ष्मत्वाच्च । न तस्यान्यदविज्ञेयं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा अस्ति । तस्मात्सर्वज्ञं तद्ब्रह्म । मन्त्रवर्णाच्च ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्’ (श्वे. उ. ३ । १९) इति । ‘न हि विज्ञतुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति’ (बृ. उ. ४ । ३ । ३०) इत्यादिश्रुतेश्च । विज्ञातृस्वरूपाव्यतिरेकात्करणादिनिमित्तानपेक्षत्वाच्च ब्रह्मणो ज्ञानस्वरूपत्वेऽपि नित्यत्वप्रसिद्धिः । अतो नैव धात्वर्थस्तत् , अक्रियारूपत्वात् । अत एव च न ज्ञानकर्तृ ; तस्मादेव च न ज्ञानशब्दवाच्यमपि तद्ब्रह्म । तथापि तदाभासवाचकेन बुद्धिधर्मविशेषेण ज्ञानशब्देन तल्लक्ष्यते ; न तु उच्यते, शब्दप्रवृत्तिहेतुजात्यादिधर्मरहितत्वात् । तथा सत्यशब्देनापि । सर्वविशेषप्रत्यस्तमितस्वरूपत्वाद्ब्रह्मणः बाह्यसत्तासामान्यविषयेण सत्यशब्देन लक्ष्यते ‘सत्यं ब्रह्म’ इति ; न तु सत्यशब्दवाच्यं ब्रह्म । एवं सत्यादिशब्दा इतरेतरसंनिधानादन्योन्यनियम्यनियामकाः सन्तः सत्यादिशब्दवाच्यात् निवर्तका ब्रह्मणः, लक्षणार्थाश्च भवन्तीति । अतः सिद्धम् ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ (तै. उ. २ । ४ । १) ‘अनिरुक्तेऽनिलयने’ (तै. उ. २ । ७ । १) इति च अवाच्यत्वम् , नीलोत्पलवदवाक्यार्थत्वं च ब्रह्मणः ॥
तद्यथाव्याख्यातं ब्रह्म यः वेद विजानाति निहितं स्थितं गुहायाम् , गूहतेः संवरणार्थस्य निगूढा अस्यां ज्ञानज्ञेयज्ञातृपदार्था इति गुहा बुद्धिः, गूढावस्यां भोगापवर्गौ पुरुषार्थाविति वा, तस्यां परमे प्रकृष्टे व्योमन् व्योम्नि आकाशे अव्याकृताख्ये ; तद्धि परमं व्योम, ‘एतस्मिन्खल्वक्षरे गार्ग्याकाशः’ (बृ. उ. ३ । ८ । ११) इत्यक्षरसंनिकर्षात् ; ‘गुहायां व्योमन्’ इति वा सामानाधिकरण्यादव्याकृताकाशमेव गुहा ; तत्रापि निगूढाः सर्वे पदार्थास्त्रिषु कालेषु, कारणत्वात्सूक्ष्मतरत्वाच्च ; तस्मिन्नन्तर्निहितं ब्रह्म । हार्दमेव तु परमं व्योमेति न्याय्यम् , विज्ञानाङ्गत्वेन व्योम्नो विवक्षितत्वात् । ‘यो वै स बहिर्धा पुरुषादाकाशो यो वै सोऽन्तः पुरुष आकाशो योऽयमन्तर्हृदय आकाशः’ (छा. उ. ३ । १२ । ७), (छा. उ. ३ । १२ । ८) इति श्रुत्यन्तरात्प्रसिद्धं हार्दस्य व्योम्नः परमत्वम् । तस्मिन्हार्दे व्योम्नि या बुद्धिर्गुहा, तस्यां निहितं ब्रह्म तद्व्यावृत्त्या विविक्ततयोपलभ्यत इति । न ह्यन्यथा विशिष्टदेशकालसम्बन्धोऽस्ति ब्रह्मणः, सर्वगतत्वान्निर्विशेषत्वाच्च । सः एवं ब्रह्म विजानन् ; किमित्याह - अश्नुते भुङ्क्ते सर्वान् निरवशेषान् कामान् काम्यभोगानित्यर्थः । किमस्मदादिवत्पुत्रस्वर्गादीन्पर्यायेण ? नेत्याह - सह युगपत् एकक्षणोपारूढानेव एकयोपलब्ध्या सवितृप्रकाशवन्नित्यया ब्रह्मस्वरूपाव्यतिरिक्तया, यामवोचाम ‘सत्यं ज्ञानम्’ इति । एतत्तदुच्यते - ब्रह्मणा सहेति । ब्रह्मभूतो विद्वान् ब्रह्मस्वरूपेणैव सर्वान्कामान् सह अश्नुते । न तथा यथोपाधिकृतेन स्वरूपेणात्मनो जलसूर्यकादिवत्प्रतिबिम्बभूतेन सांसारिकेण धर्मादिनिमित्तापेक्षांश्चक्षुरादिकरणापेक्षांश्च सर्वान्कामान्पर्यायेणाश्नुते लोकः । कथं तर्हि ? यथोक्तेन प्रकारेण सर्वज्ञेन सर्वगतेन सर्वात्मना नित्यब्रह्मात्मस्वरूपेण धर्मादिनिमित्तानपेक्षान् चक्षुरादिकरणानपेक्षांश्च सर्वान्कामान्सहाश्नुत इत्यर्थः । विपश्चिता मेधाविना सर्वज्ञेन । तद्धि वैपश्चित्यम् , यत्सर्वज्ञत्वम् । तेन सर्वज्ञस्वरूपेण ब्रह्मणा अश्नुत इति । इतिशब्दो मन्त्रपरिसमाप्त्यर्थः ॥
सर्व एव वल्ल्यर्थः ‘ब्रह्मविदाप्नोति परम्’ इति ब्राह्मण वाक्येन सूत्रितः । स च सूत्रितोऽर्थः सङ्क्षेपतो मन्त्रेण व्याख्यातः । पुनस्तस्यैव विस्तरेणार्थनिर्णयः कर्तव्य इत्युत्तरस्तद्वृत्तिस्थानीयो ग्रन्थ आरभ्यते - तस्माद्वा एतस्मादित्यादिः । तत्र च ‘ सत्यं ज्ञानमनन्तं ब्रह्म’ इत्युक्तं मन्त्रादौ ; तत्कथं सत्यमनन्तं चेत्यत आह । त्रिविधं ह्यानन्त्यम् - देशतः कालतो वस्तुतश्चेति । तद्यथा - देशतोऽनन्त आकाशः ; न हि देशतस्तस्य परिच्छेदोऽस्ति । न तु कालतश्चानन्त्यं वस्तुतश्च आकाशस्य । कस्मात् ? कार्यत्वात् । नैवं ब्रह्मण आकाशवत्कालतोऽप्यन्तवत्त्वम् । अकार्यत्वात् । कार्यं हि वस्तु कालेन परिच्छिद्यते । अकार्यं च ब्रह्म । तस्मात्कालतोऽस्यानन्त्यम् । तथा वस्तुतः । कथं पुनर्वस्तुत आनन्त्यम् ? सर्वानन्यत्वात् । भिन्नं हि वस्तु वस्त्वन्तरस्य अन्तो भवति, वस्त्वन्तरबुद्धिर्हि प्रसक्ताद्वस्त्वन्तरान्निवर्तते । यतो यस्य बुद्धेर्निवृत्तिः, स तस्यान्तः । तद्यथा गोत्वबुद्धिरश्वत्वान्निवर्तत इत्यश्वत्वान्तं गोत्वमित्यन्तवदेव भवति । स चान्तो भिन्नेषु वस्तुषु दृष्टः । नैवं ब्रह्मणो भेदः । अतो वस्तुतोऽप्यानन्त्यम् । कथं पुनः सर्वानन्यत्वं ब्रह्मण इति, उच्यते - सर्ववस्तुकारणत्वात् । सर्वेषां हि वस्तूनां कालाकाशादीनां कारणं ब्रह्म । कार्यापेक्षया वस्तुतोऽन्तवत्त्वमिति चेत् , न ; अनृतत्वात्कार्यस्य वस्तुनः । न हि कारणव्यतिरेकेण कार्यं नाम वस्तुतोऽस्ति, यतः कारणबुद्धिर्विनिवर्तेत ; ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) एवं सदेव सत्यमिति श्रुत्यन्तरात् । तस्मादाकाशादिकारणत्वाद्देशतस्तावदनन्तं ब्रह्म । आकाशो ह्यनन्त इति प्रसिद्धं देशतः ; तस्येदं कारणम् ; तस्मात्सिद्धं देशत आत्मन आनन्त्यम् । न ह्यसर्वगतात्सर्वगतमुत्पद्यमानं लोके किञ्चिद्दृश्यते । अतो निरतिशयमात्मन आनन्त्यं देशतः । तथा अकार्यत्वात्कालतः ; तद्भिन्नवस्त्वन्तराभावाच्च वस्तुतः । अत एव निरतिशयसत्यत्वम् ॥
तस्मात् इति मूलवाक्यसूत्रितं ब्रह्म परामृश्यते ; एतस्मात् इति मन्त्रवाक्येन अनन्तरं यथालक्षितम् । यद्ब्रह्म आदौ ब्राह्मणवाक्येन सूत्रितम् , यच्च ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यनन्तरमेव लक्षितम् , तस्मादेतस्माद्ब्रह्मण आत्मनः आत्मशब्दवाच्यात् ; आत्मा हि तत् सर्वस्य, ‘तत्सत्यं स आत्मा’ (छा. उ. ६ । ८ । १६) इति श्रुत्यन्तरात् ; अतो ब्रह्म आत्मा ; तस्मादेतस्माद्ब्रह्मण आत्मस्वरूपात् आकाशः सम्भूतः समुत्पन्नः । आकाशो नाम शब्दगुणः अवकाशकरो मूर्तद्रव्याणाम् । तस्मात् आकाशात् स्वेन स्पर्शगुणेन पूर्वेण च आकाशगुणेन शब्देन द्विगुणः वायुः, सम्भूत इत्यनुवर्तते । वायोश्च स्वेन रूपगुणेन पूर्वाभ्यां च त्रिगुणः अग्निः सम्भूतः । अग्नेश्च स्वेन रसगुणेन पूर्वैश्च त्रिभिः चतुर्गुणा आपः सम्भूताः । अद्भ्यः स्वेन गन्धगुणेन पूर्वैश्च चतुर्भिः पञ्चगुणा पृथिवी सम्भूता । पृथिव्याः ओषधयः । ओषधीभ्यः अन्नम् । अन्नात् रेतोरूपेण परिणतात् पुरुषः शिरः - पाण्याद्याकृतिमान् । स वै एष पुरुषः अन्नरसमयः अन्नरसविकारः पुरुषाकृतिभावितं हि सर्वेभ्योऽङ्गेभ्यस्तेजःसम्भूतं रेतो बीजम् । तस्माद्यो जायते, सोऽपि तथा पुरुषाकृतिरेव स्यात् ; सर्वजातिषु जायमानानां जनकाकृतिनियमदर्शनात् । सर्वेषामप्यन्नरसविकारत्वे ब्रह्मवंश्यत्वे च अविशिष्टे, कस्मात्पुरुष एव गृह्यते ? प्राधान्यात् । किं पुनः प्राधान्यम् ? कर्मज्ञानाधिकारः । पुरुष एव हि शक्तत्वादर्थित्वादपर्युदस्तत्वाच्च कर्मज्ञानयोरधिक्रियते, ‘पुरुषे त्वेवाविस्तरामात्मा स हि प्रज्ञानेन सम्पन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामतमीक्षतीत्येवं सम्पन्नः ; अथेतरेषां पशूनामशनायापिपासे एवाभिविज्ञानम्’ इत्यादि श्रुत्यन्तरदर्शनात् ॥
स हि पुरुषः इह विद्यया आन्तरतमं ब्रह्म सङ्क्रामयितुमिष्टः । तस्य च बाह्याकारविशेषेष्वनात्मसु आत्मभाविताबुद्धिः विना आलम्बनविशेषं कञ्चित् सहसा आन्तरतमप्रत्यगात्मविषया निरालम्बना च कर्तुमशक्येति दृष्टशरीरात्मसामान्यकल्पनया शाखाचन्द्रनिदर्शनवदन्तः प्रवेशयन्नाह - तस्येदमेव शिरः । तस्य अस्य पुरुषस्यान्नरसमयस्य इदमेव शिरः प्रसिद्धम् । प्राणमयादिष्वशिरसां शिरस्त्वदर्शनादिहापि तत्प्रसङ्गो मा भूदिति इदमेव शिर इत्युच्यते । एवं पक्षादिषु योजना । अयं दक्षिणो बाहुः पूर्वाभिमुखस्य दक्षिणः पक्षः । अयं सव्यो बाहुः उत्तरः पक्षः । अयं मध्यमो देहभागः आत्मा अङ्गानाम् , ‘मध्यं ह्येषामङ्गानामात्मा’ इति श्रुतेः । इदमिति नाभेरधस्ताद्यदङ्गम् , तत् पुच्छं प्रतिष्ठा । प्रतितिष्ठत्यनयेति प्रतिष्ठा । पुच्छमिव पुच्छम् , अधोलम्बनसामान्यात् , यथा गोः पुच्छम् । एतत्प्रकृत्य उत्तरेषां प्राणमयादीनां रूपकत्वसिद्धिः, मूषानिषिक्तद्रुतताम्रप्रतिमावत् । तदप्येष श्लोको भवति । तत् तस्मिन्नेवार्थे ब्राह्मणोक्ते अन्नमयात्मप्रकाशके एष श्लोकः मन्त्रः भवति ॥
इति प्रथमानुवाकभाष्यम् ॥
अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीं श्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपि यन्त्यन्ततः । अन्नं हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते । सर्वं वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते । अन्नं हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते । अन्नाद्भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति । तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
अन्नात् रसादिभावपरिणतात् , वै इति स्मरणार्थः, प्रजाः स्थावरजङ्गमात्मकाः, प्रजायन्ते । याः काश्च अविशिष्टाः पृथिवीं श्रिताः पृथिवीमाश्रिताः, ताः सर्वा अन्नादेव प्रजायन्ते । अथो अपि, जाताः अन्नेनैव जीवन्ति प्राणान्धारयन्ति, वर्धन्त इत्यर्थः । अथ अपि, एनत् अन्नम् , अपियन्ति अपिगच्छन्ति, अपि शब्दः प्रतिशब्दार्थे, अन्नं प्रति लीयन्त इत्यर्थः ; अन्ततः अन्ते जीवनलक्षणाया वृत्तेः परिसमाप्तौ । कस्मात् ? अन्नं हि यस्मात् भूतानां प्राणिनां ज्येष्ठं प्रथमजम् । अन्नमयादीनां हि इतरेषां भूतानां कारणमन्नम् ; अतः अन्नप्रभवा अन्नजीवना अन्नप्रलयाश्च सर्वाः प्रजाः । यस्माच्चैवम् , तस्मात् सर्वौषधं सर्वप्राणिनां देहदाहप्रशमनमन्नमुच्यते ॥
अन्नब्रह्मविदः फलमुच्यते - सर्वं वै ते समस्तमन्नजातम् आप्नुवन्ति । के ? ये अन्नं ब्रह्म यथोक्तम् उपासते । कथम् ? अन्नजोऽन्नात्मान्नप्रलयोऽहम् , तस्मादन्नं ब्रह्म इति । कुतः पुनः सर्वान्नप्राप्तिफलमन्नात्मोपासनमिति, उच्यते - अन्नं हि भूतानां ज्येष्ठं भूतेभ्यः पूर्वमुत्पन्नत्वाज्ज्येष्ठं हि यस्मात् , तस्मात्सर्वौषधमुच्यते ; तस्मादुपपन्ना सर्वान्नात्मोपासकस्य सर्वान्नप्राप्तिः । अन्नाद्भूतानि जायन्ते, जातान्यन्नेन वर्धन्ते इति उपसंहारार्थं पुनर्वचनम् । इदानीमन्नशब्दनिर्वचनमुच्यते - अद्यते भुज्यते चैव यद्भूतैः अत्ति च भूतानि स्वयम् , तस्मात् भूतैर्भुज्यमानत्वाद्भूतभोक्तृत्वाच्च अन्नं तत् उच्यते । इति शब्दः प्रथमकोशपरिसमाप्त्यर्थः । अन्नमयादिभ्य आनन्दमयान्तेभ्य आत्मभ्यः अभ्यन्तरतमं ब्रह्म विद्यया प्रत्यगात्मत्वेन दिदर्शयिषु शास्त्रम् अविद्याकृतपञ्चकोशापनयनेन अनेकतुषकोद्रववितुषीकरणेनेव तण्डुलान् प्रस्तौति - तस्माद्वा एतस्मादन्नरसमयादित्यादि । तस्माद्वै एतस्मात् यथोक्तात् अन्नरसमयात्पिण्डात् अन्यः व्यतिरिक्तः अन्तरः अभ्यन्तरः आत्मा पिण्डवदेव मिथ्यापरिकल्पित आत्मत्वेन प्राणमयः, प्राणः वायुः, तन्मयः तत्प्रायः । तेन प्राणमयेन एषः अन्नरसमय आत्मा पूर्णः वायुनेव दृतिः । स वै एष प्राणमय आत्मा पुरुषविध एव पुरुषाकार एव शिरःपक्षादिभिः । किं स्वत एव ? नेत्याह - प्रसिद्धं तावदन्नरसमयस्यात्मनः पुरुषविधत्वम् ; तस्य अन्नरसमयस्य पुरुषविधतां पुरुषाकारताम् अनु अयं प्राणमयः पुरुषविधः मूषानिषिक्तप्रतिमावत् , न स्वत एव । एवं पूर्वस्य पूर्वस्य पुरुषविधता ; तामनु उत्तरोत्तरः पुरुषविधो भवति, पूर्वः पूर्वश्चोत्तरोत्तरेण पूर्णः । कथं पुनः पुरुषविधता अस्येति, उच्यते - तस्य प्राणमयस्य प्राण एव शिरः प्राणमयस्य वायुविकारस्य प्राणः मुखनासिकानिःसरणो वृत्तिविशेषः शिर इति कल्प्यते, वचनात् । सर्वत्र वचनादेव पक्षादिकल्पना । व्यानः व्यानवृत्तिः दक्षिणः पक्षः । अपानः उत्तरः पक्षः । आकाश आत्मा, य आकाशस्थो वृत्तिविशेषः समानाख्यः, स आत्मेव आत्मा प्राणवृत्त्यधिकारात् । मध्यस्थत्वादितराः पर्यन्ता वृत्तीरपेक्ष्य आत्मा ; ‘मध्यं ह्येषामङ्गानामात्मा’ इति प्रसिद्धं मध्यस्थस्यात्मत्वम् । पृथिवी पुच्छं प्रतिष्ठा । पृथिवीति पृथिवीदेवता आध्यात्मिकस्य प्राणस्य धारयित्री स्थितिहेतुत्वात् । ‘सैषा पुरुषस्यापानमवष्टभ्य’ (प्र. उ. ३ । ८) इति हि श्रुत्यन्तरम् । अन्यथा उदानवृत्त्या ऊर्ध्वगमनं गुरुत्वात्पतनं वा स्याच्छरीरस्य । तस्मात्पृथिवी देवता पुच्छं प्रतिष्ठा प्राणमयस्य आत्मनः । तत् तस्मिन्नेवार्थे प्राणमयात्मविषये एष श्लोको भवति ॥
इति द्वितीयानुवाकभाष्यम् ॥
प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्मात्प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
प्राणं देवा अनु प्राणन्ति । अग्न्यादयः देवाः प्राणं वाय्वात्मानं प्राणनशक्तिमन्तम् अनु तदात्मभूताः सन्तः प्राणन्ति प्राणनकर्म कुर्वन्ति, प्राणनक्रियया क्रियावन्तो भवन्ति । अध्यात्माधिकारात् देवाः इन्द्रियाणि प्राणमनु प्राणन्ति । मुख्यप्राणमनु चेष्टन्त इति वा । तथा मनुष्याः पशवश्च ये, ते प्राणनकर्मणैव चेष्टावन्तो भवन्ति । अतश्च नान्नमयेनैव परिच्छिन्नात्मना आत्मवन्तः प्राणिनः । किं तर्हि ? तदन्तर्गतप्राणमयेनापि साधारणेनैव सर्वपिण्डव्यापिना आत्मवन्तो मनुष्यादयः । एवं मनोमयादिभिः पूर्वपूर्वव्यापिभिः उत्तरोत्तरैः सूक्ष्मैः आनन्दमयान्तैराकाशादिभूतारब्धैरविद्याकृतैः आत्मवन्तः सर्वे प्राणिनः ; तथा, स्वाभाविकेनाप्याकाशादिकारणेन नित्येनाविकृतेन सर्वगतेन सत्यज्ञानानन्तलक्षणेन पञ्चकोशातिगेन सर्वात्मना आत्मवन्तः ; स हि परमार्थत आत्मा सर्वेषामित्येतदप्यर्थादुक्तं भवति । प्राणं देवा अनु प्राणन्तीत्याद्युक्तम् ; तत्कस्मादित्याह - प्राणः हि यस्मात् भूतानां प्राणिनाम् आयुः जीवनम् , ‘यावद्ध्यस्मिञ्शरीरे प्राणो वसति तावदेवायुः’ (कौ. उ. ३ । २) इति श्रुत्यन्तरात् । तस्मात् सर्वायुषम् , सर्वेषामायुः सर्वायुः, सर्वायुरेव सर्वायुषम् इत्युच्यते ; प्राणापगमे मरणप्रसिद्धेः । प्रसिद्धं हि लोके सर्वायुष्ट्वं प्राणस्य । अतः अस्माद्बाह्यादसाधारणादन्नमयादात्मनोऽपक्रम्य अन्तः साधारणं प्राणमयमात्मानं ब्रह्म उपासते ये ‘अहमस्मि प्राणः सर्वभूतानामात्मा आयुः, जीवनहेतुत्वात्’ इति, ते सर्वमेव आयुः अस्मिंल्लोके यन्ति ; नापमृत्युना म्रियन्ते प्राक्प्राप्तादायुष इत्यर्थः । शतं वर्षाणीति तु युक्तम् , ‘सर्वमायुरेति’ (छा. उ. २ । ११ । २)(छा. उ. ४ । ११ । २) इति श्रुतिप्रसिद्धेः । किं कारणम् ? - प्राणो हि भूतानामायुः तस्मात्सर्वायुषमुच्यत इति । यो यद्गुणकं ब्रह्मोपास्ते, स तद्गुणभाग्भवतीति विद्याफलप्राप्तेर्हेत्वर्थं पुनर्वचनम् - प्राणो हीत्यादि । तस्य पूर्वस्य अन्नमयस्य एष एव शरीरे अन्नमये भवः शारीरः आत्मा । कः ? य एष प्राणमयः । तस्माद्वा एतस्मादित्याद्युक्तार्थमन्यत् । अन्योऽन्तर आत्मा मनोमयः । मन इति सङ्कल्पविकल्पात्मकमन्तःकरणम् , तन्मयो मनोमयः ; सोऽयं प्राणमयस्याभ्यन्तर आत्मा । तस्य यजुरेव शिरः । यजुरिति अनियताक्षरपादावसानो मन्त्रविशेषः ; तज्जातीयवचनो यजुःशब्दः ; तस्य शिरस्त्वम् , प्राधान्यात् । प्राधान्यं च यागादौ संनिपत्योपकारकत्वात् यजुषा हि हविर्दीयते स्वाहाकारादिना ॥
वाचनिकी वा शिरआदिकल्पना सर्वत्र । मनसो हि स्थानप्रयत्ननादस्वरवर्णपदवाक्यविषया तत्सङ्कल्पात्मिका तद्भाविता वृत्तिः श्रोत्रकरणद्वारा यजुःसङ्केतेन विशिष्टा यजुरित्युच्यते । एवम् ऋक् ; एवं साम च । एवं च मनोवृत्तित्वे मन्त्राणाम् , वृत्तिरेव आवर्त्यत इति मानसो जप उपपद्यते । अन्यथा अविषयत्वान्मन्त्रो नावर्तयितुं शक्यः घटादिवत् इति मानसो जपो नोपपद्यते । मन्त्रावृत्तिश्चोद्यते बहुशः कर्मसु । अक्षरविषयस्मृत्यावृत्त्या मन्त्रावृत्तिः स्यात् इति चेत् , न ; मुख्यार्थासम्भवात् । ‘त्रिः प्रथमामन्वाह त्रिरुत्तमाम्’ इति ऋगावृत्तिः श्रूयते । तत्र ऋचः अविषयत्वे तद्विषयस्मृत्यावृत्त्या मन्त्रावृत्तौ च क्रियमाणायाम् ‘त्रिः प्रथमामन्वाह’ इति ऋगावृत्तिर्मुख्योऽर्थश्चोदितः परित्यक्तः स्यात् । तस्मान्मनोवृत्त्युपाधिपरिच्छिन्नं मनोवृत्तिनिष्ठमात्मचैतन्यमनादिनिधनं यजुःशब्दवाच्यम् आत्मविज्ञानं मन्त्रा इति । एवं च नित्यत्वोपपत्तिर्वेदानाम् । अन्यथाविषयत्वे रूपादिवदनित्यत्वं च स्यात् ; नैतद्युक्तम् । ‘सर्वे वेदा यत्रैकं भवन्ति स मानसीन आत्मा’ इति च श्रुतिः नित्यात्मनैकत्वं ब्रुवन्ती ऋगादीनां नित्यत्वे समञ्जसा स्यात् । ‘ऋचोऽक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः’ (श्वे. उ. ४ । ८) इति च मन्त्रवर्णः । आदेशः अत्र ब्राह्मणम् , आदेष्टव्यविशेषानादिशतीति । अथर्वणाङ्गिरसा च दृष्टा मन्त्रा ब्राह्मणं च शान्तिकपौष्टिकादिप्रतिष्ठाहेतुकर्मप्रधानत्वात् पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति मनोमयात्मप्रकाशकः पूर्ववत् ॥
इति तृतीयानुवाकभाष्यम् ॥
यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेत्यादि । तस्य पूर्वस्य प्राणमयस्य एष एव आत्मा शारीरः शरीरे प्राणमये भवः शरीरः । कः ? य एष मनोमयः । तस्माद्वा एतस्मादिति पूर्ववत् । अन्योऽन्तर आत्मा विज्ञानमयः मनोमयस्याभ्यन्तरो विज्ञानमयः । मनोमयो वेदात्मा उक्तः । वेदार्थविषया बुद्धिर्निश्चयात्मिका विज्ञानम् , तच्चाध्यवसायलक्षणमन्तःकरणस्य धर्मः, तन्मयः निश्चयविज्ञानैः प्रमाणस्वरूपैर्निर्वर्तितः आत्मा विज्ञानमयः प्रमाणविज्ञानपूर्वको हि यज्ञादिः तायते । यज्ञादिहेतुत्वं च वक्ष्यति श्लोकेन । निश्चयविज्ञानवतो हि कर्तव्येष्वर्थेषु पूर्वं श्रद्धा उपपद्यते । सा सर्वकर्तव्यानां प्राथम्यात् शिर इव शिरः । ऋतसत्ये यथाव्याख्याते एव । योगः युक्तिः समाधानम् आत्मैव आत्मा । आत्मवतो हि युक्तस्य समाधानवतः अङ्गानीव श्रद्धादीनि यथार्थप्रतिपत्तिक्षमाणि भवन्ति । तस्मात्समाधानं योग आत्मा विज्ञानमयस्य । महः पुच्छं प्रतिष्ठा । मह इति महत्तत्त्वं प्रथमजम् , ‘महद्यक्षं प्रथमजं वेद’ (बृ. उ. ५ । ४ । १) इति श्रुत्यन्तरात् , पुच्छं प्रतिष्ठा कारणत्वात् । कारणं हि कार्याणां प्रतिष्ठा, यथा वृक्षवीरुधां पृथिवी । सर्वविज्ञानानां च महत्तत्त्वं कारणम् । तेन तद्विज्ञानमयस्यात्मनः प्रतिष्ठा । तदप्येष श्लोको भवति पूर्ववत् । यथा अन्नमयादीनां ब्राह्मणोक्तानां प्रकाशकाः श्लोकाः, एवं विज्ञानमयस्यापि ॥
इति चतुर्थानुवाकभाष्यम् ॥
विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे । ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद । तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा । सर्वान्कामान्समश्नुत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्मानन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुष विधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥
विज्ञानं यज्ञं तनुते, विज्ञानवान्हि यज्ञं तनोति श्रद्धापूर्वकम् ; अतो विज्ञानस्य कर्तृत्वं तनुत इति । कर्माणि च तनुते । यस्माद्विज्ञानकर्तृकं सर्वम् , तस्माद्युक्तं विज्ञानमय आत्मा ब्रह्मेति । किञ्च, विज्ञानं ब्रह्म सर्वे देवाः इन्द्रादयः ज्येष्ठम् , प्रथमजत्वात् ; सर्ववृत्तीनां वा तत्पूर्वकत्वात्प्रथमजं विज्ञानं ब्रह्म उपासते ध्यायन्ति, तस्मिन्विज्ञानमये ब्रह्मण्यभिमानं कृत्वा उपासत इत्यर्थः । तस्मात्ते महतो ब्रह्मण उपासनात् ज्ञानैश्वर्यवन्तो भवन्ति । तच्च विज्ञानं ब्रह्म चेत् यदि वेद विजानाति ; न केवलं वेदैव, तस्मात् ब्रह्मणः चेत् न प्रमाद्यति ; बाह्येष्वनात्मस्वात्मा भावितः ; तस्मात्प्राप्तं विज्ञानमये ब्रह्मण्यात्मभावनायाः प्रमदनम् ; तन्निवृत्त्यर्थमुच्यते - तस्माच्चेन्न प्रमाद्यतीति । अन्नमयादिष्वात्मभावं हित्वा केवले विज्ञानमये ब्रह्मण्यात्मत्वं भावयन्नास्ते चेदित्यर्थः । ततः किं स्यादिति, उच्यते - शरीरे पाप्मनो हित्वा ; शरीराभिमाननिमित्ता हि सर्वे पाप्मानः ; तेषां च विज्ञानमये ब्रह्मण्यात्माभिमानात् निमित्तापाये हानमुपपद्यते ; छत्रापाय इव च्छायायाः । तस्मात् शरीराभिमाननिमित्तान्सर्वान् पाप्मनः शरीरप्रभवान् शरीरे एव हित्वा विज्ञानमयब्रह्मस्वरूपापन्नः तत्स्थान् सर्वान् कामान् विज्ञानमयेनैवात्मना समश्नुते सम्यग्भुङ्क्ते इत्यर्थः । तस्य पूर्वस्य मनोमयस्य आत्मा एष एव शरीरे मनोमये भवः शारीरः । कः ? य एष विज्ञानमयः । तस्माद्वा एतस्मादित्युक्तार्थम् । आनन्दमय इति कार्यात्मप्रतीतिः, अधिकारात् मयट्शब्दाच्च । अन्नादिमया हि कार्यात्मानो भौतिका इहाधिकृताः । तदधिकारपतितश्चायमानन्दमयः । मयट् चात्र विकारार्थे दृष्टः, यथा अन्नमय इत्यत्र । तस्मात्कार्यात्मा आनन्दमयः प्रत्येतव्यः । सङ्क्रमणाच्च । ‘आनन्दमयमात्मानमुपसङ्क्रामति’ इति वक्ष्यति । कार्यात्मनां च सङ्क्रमणमन्नात्मनां दृष्टम् । सङ्क्रमणकर्मत्वेन च आनन्दमय आत्मा श्रूयते, यथा ‘अन्नमयमात्मानमुपसङ्क्रामति’ इति । न च आत्मन एवोपसङ्क्रमणम् , अधिकारविरोधात् । असम्भवाच्च । न ह्यात्मनैव आत्मन उपसङ्क्रमणं सम्भवति, स्वात्मनि भेदाभावात् ; आत्मभूतं च ब्रह्म सङ्क्रमितुः । शिरआदिकल्पनानुपपत्तेश्च । न हि यथोक्तलक्षणे आकाशादिकारणे अकार्यपतिते शिरआद्यवयवरूपकल्पना उपपद्यते । ‘अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने’ (तै. उ. २ । ७ । १) ‘अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) ‘नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) इत्यादिविशेषापोहश्रुतिभ्यश्च । मन्त्रोदाहरणानुपपत्तेश्च । न हि, प्रियशिरआद्यवयवविशिष्टे प्रत्यक्षतोऽनुभूयमाने आनन्दमये आत्मनि ब्रह्मणि नास्ति ब्रह्मेत्याशङ्काभावात् ‘असन्नेव स भवति असद्ब्रह्मेति वेद चेत्’ (तै. उ. २ । ६ । १) इति मन्त्रोदाहरणमुपपद्यते । ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यपि चानुपपन्नं पृथग्ब्रह्मणः प्रतिष्ठात्वेन ग्रहणम् । तस्मात्कार्यपतित एवानन्दमयः, न पर एवात्मा । आनन्द इति विद्याकर्मणोः फलम् , तद्विकार आनन्दमयः । स च विज्ञानमयादान्तरः, यज्ञादिहेतोर्विज्ञानमयादस्यान्तरत्वश्रुतेः । ज्ञानकर्मणोर्हि फलं भोक्त्रर्थत्वादान्तरतमं स्यात् ; आन्तरतमश्च आनन्दमय आत्मा पूर्वेभ्यः । विद्याकर्मणोः प्रियाद्यर्थत्वाच्च । प्रियादिप्रयुक्ते हि विद्याकर्मणी ; तस्मात्प्रियादीनां फलरूपाणामात्मसंनिकर्षात् विज्ञानमयादस्याभ्यन्तरत्वमुपपद्यते ; प्रियादिवासनानिर्वर्तितो ह्यात्मा आनन्दमयो विज्ञानमयाश्रितः स्वप्ने उपलभ्यते । तस्य आनन्दमयस्यात्मनः इष्टपुत्रादिदर्शनजं प्रियं शिर इव शिरः, प्राधान्यात् । मोद इति प्रियलाभनिमित्तो हर्षः । स एव च प्रकृष्टो हर्षः प्रमोदः । आनन्द इति सुखसामान्यम् आत्मा प्रियादीनां सुखावयवानाम् , तेष्वनुस्यूतत्वात् । आनन्द इति परं ब्रह्म ; तद्धि शुभकर्मणा प्रत्युपस्थाप्यमाने पुत्रमित्रादिविषयविशेषोपाधौ अन्तःकरणवृत्तिविशेषे तमसा अप्रच्छाद्यमाने प्रसन्ने अभिव्यज्यते । तद्विषयसुखमिति प्रसिद्धं लोके । तद्वृत्तिविशेषप्रत्युपस्थापकस्य कर्मणोऽनवस्थितत्वात् सुखस्य क्षणिकत्वम् । तद्यदन्तःकरणं तपसा तमोघ्नेन विद्यया ब्रह्मचर्येण श्रद्धया च निर्मलत्वमापद्यते यावत् , तावत् विविक्ते प्रसन्ने अन्तःकरणे आनन्दविशेष उत्कृष्यते विपुलीभवति । वक्ष्यति च - ‘रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति, एष ह्येवानन्दयाति’ (तै. उ. २ । ७ । १) ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इति श्रुत्यन्तरात् । एवं च कामोपशमोत्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्षः आनन्दस्य वक्ष्यते । एवं च उत्कृष्यमाणस्य आनन्दमयस्यात्मनः परमार्थब्रह्मविज्ञानापेक्षया ब्रह्म परमेव यत्प्रकृतं सत्यज्ञानानन्तलक्षणम् , यस्य च प्रतिपत्त्यर्थं पञ्च अन्नादिमयाः कोशा उपन्यस्ताः, यच्च तेभ्य आभ्यन्तरम् , येन च ते सर्वे आत्मवन्तः, तत् ब्रह्म पुच्छं प्रतिष्ठा । तदेव च सर्वस्याविद्यापरिकल्पितस्य द्वैतस्य अवसानभूतम् अद्वैतं ब्रह्म प्रतिष्ठा, आनन्दमयस्य एकत्वावसानत्वात् । अस्ति तदेकमविद्याकल्पितस्य द्वैतस्यावसानभूतमद्वैतं ब्रह्म प्रतिष्ठा पुच्छम् । तदेतस्मिन्नप्यर्थे एष श्लोको भवति ॥
इति पञ्चमानुवाकभाष्यम् ॥
असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेन न्ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती ३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित्समश्नुता ३ उ । सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत्सत्यमित्याचक्षते । तदप्येष श्लोको भवति ॥ १ ॥
असन्नेव असत्सम एव, यथा असन् अपुरुषार्थसम्बन्धी, एवं सः भवति अपुरुषार्थसम्बन्धी । कोऽसौ ? यः असत् अविद्यमानं ब्रह्म इति वेद विजानाति चेत् यदि । तद्विपर्ययेण यत्सर्वविकल्पास्पदं सर्वप्रवृत्तिबीजं सर्वविशेषप्रत्यस्तमितमपि, अस्ति तत् ब्रह्म इति वेद चेत् , कुतः पुनराशङ्का तन्नास्तित्वे ? व्यवहारातीतत्वं ब्रह्मण इति ब्रूमः । व्यवहारविषये हि वाचारम्भणमात्रे अस्तित्वभावितबुद्धिः तद्विपरीते व्यवहारातीते नास्तित्वमपि प्रतिपद्यते । यथा ‘घटादिर्व्यवहारविषयतयोपपन्नः सन् , तद्विपरीतः असन्’ इति प्रसिद्धम् , एवं तत्सामान्यादिहापि स्याद्ब्रह्मणो नास्तित्वं प्रत्याशङ्का । तस्मादुच्यते - अस्ति ब्रह्मेति चेद्वेदेति । किं पुनः स्यात्तदस्तीति विजानतः ? तदाह - सन्तं विद्यमानं ब्रह्मस्वरूपेण परमार्थसदात्मापन्नम् एनम् एवंविदं विदुः ब्रह्मविदः । ततः तस्मात् अस्तित्ववेदनात् सः अन्येषां ब्रह्मवद्विज्ञेयो भवतीत्यर्थः । अथवा यो नास्ति ब्रह्मेति मन्यते, स सर्वस्यैव सन्मार्गस्य वर्णाश्रमादिव्यवस्थालक्षणस्य नास्तित्वं प्रतिपद्यते ; ब्रह्मप्रतिपत्त्यर्थत्वात्तस्य । अतः नास्तिकः सः असन् असाधुरुच्यते लोके । तद्विपरीतः सन् यः अस्ति ब्रह्मेति चेद्वेद, स तद्ब्रह्मप्रतिपत्तिहेतुं सन्मार्गं वर्णाश्रमादिव्यवस्थालक्षणं श्रद्दधानतया यथावत्प्रतिपद्यते यस्मात् , ततः तस्मात् सन्तं साधुमार्गस्थम् एनं विदुः साधवः । तस्मादस्तीत्येव ब्रह्म प्रतिपत्तव्यमिति वाक्यार्थः । तस्य पूर्वस्य विज्ञानमयस्य एष एव शरीरे विज्ञानमये भवः शारीरः आत्मा । कोऽसौ ? य एष आनन्दमयः । तं प्रति नास्त्याशङ्का नास्तित्वे । अपोढसर्वविशेषत्वात्तु ब्रह्मणो नास्तित्वं प्रत्याशङ्का युक्ता ; सर्वसाम्याच्च ब्रह्मणः । यस्मादेवम् , अतः तस्मात् अथ अनन्तरं श्रोतुः शिष्यस्य अनुप्रश्नाः आचार्योक्तिमनु एते प्रश्नाः । सामान्यं हि ब्रह्म आकाशादिकारणत्वात् विदुषः अविदुषश्च ; अतः अविदुषोऽपि ब्रह्मप्राप्तिराशङ्क्यते - उत अपि अविद्वान् अमुं लोकं परमात्मानम् इतः प्रेत्य कश्चन, चनशब्दः अप्यर्थे, अविद्वानपि गच्छति प्राप्नोति ? ‘किं वा न गच्छति ? ’इति द्वितीयोऽपि प्रश्नो द्रष्टव्यः, अनुप्रश्ना इति बहुवचनात् । विद्वांसं प्रत्यन्यौ प्रश्नौ - यद्यविद्वान्सामान्यं कारणमपि ब्रह्म न गच्छति, अतो विदुषोऽपि ब्रह्मागमनमाशङ्क्यते ; अतस्तं प्रति प्रश्नः - आहो विद्वानिति । उकारं च वक्ष्यमाणमधस्तादपकृष्य तकारं च पूर्वस्मादुतशब्दाद्व्यासज्य आहो इत्येतस्मात्पूर्वमुतशब्दं संयोज्य पृच्छति - उताहो विद्वानिति । विद्वान् ब्रह्मविदपि कश्चित् इतः प्रेत्य अमुं लोकं समश्नुते प्राप्नोति । समश्नुते उ इत्येवं स्थिते, अयादेशे यलोपे च कृते, अकारस्य प्लुतिः - समश्नुता ३ उ इति । विद्वान्समश्नुते अमुं लोकम् ; किं वा, यथा अविद्वान् , एवं विद्वानपि न समश्नुते इत्यपरः प्रश्नः । द्वावेव वा प्रश्नौ विद्वदविद्वद्विषयौ ; बहुवचनं तु सामर्थ्यप्राप्तप्रश्नान्तरापेक्षया घटते । ‘असद् ब्रह्मेति वेद चेत्’ ‘अस्ति ब्रह्मेति चेद्वेद’ इति श्रवणादस्ति नास्तीति संशयः । ततः अर्थप्राप्तः किमस्ति नास्तीति प्रथमोऽनुप्रश्नः । ब्रह्मणः अपक्षपातित्वात् अविद्वान्गच्छति न गच्छतीति द्वितीयः । ब्रह्मणः समत्वेऽपि अविदुष इव विदुषोऽप्यगमनमाशङ्क्य किं विद्वान्समश्नुते न समश्नुते इति तृतीयोऽनुप्रश्नः ॥
एतेषां प्रतिवचनार्थ उत्तरो ग्रन्थ आरभ्यते । तत्र अस्तित्वमेव तावदुच्यते । यच्चोक्तम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति, तत्र च कथं सत्यत्वमित्येतद्वक्तव्यमिति इदमुच्यते । सत्त्वोक्त्यैव सत्यत्वमुच्यते । उक्तं हि सदेव सत्यमिति ; तस्मात्सत्त्वोक्त्यैव सत्यत्वमुच्यते । कथमेवमर्थता अवगम्यते अस्य ग्रन्थस्य ? शब्दानुगमात् । अनेनैव ह्यर्थेनान्वितानि उत्तरवाक्यानि - ‘तत्सत्यमित्याचक्षते’ (तै. उ. २ । ६ । १) ‘यदेष आकाश आनन्दो न स्यात्’ (तै. उ. २ । ७ । १) इत्यादीनि । तत्र असदेव ब्रह्मेत्याशङ्क्यते । कस्मात् ? यदस्ति, तद्विशेषतो गृह्यते ; यथा घटादि । यन्नास्ति, तन्नोपलभ्यते ; यथा शशविषाणादि । तथा नोपलभ्यते ब्रह्म ; तस्माद्विशेषतः अग्रहणान्नास्तीति । तन्न, आकाशादिकारणत्वाद्ब्रह्मणः । न नास्ति ब्रह्म । कस्मात् ? आकाशादि हि सर्वं कार्यं ब्रह्मणो जातं गृह्यते ; यस्माच्च जायते किञ्चित् , तदस्तीति दृष्टं लोके, यथा घटाङ्कुरादिकारणं मृद्बीजादि ; तस्मादाकाशादिकारणत्वादस्ति ब्रह्म । न चासतो जातं किञ्चिद्गृह्यते लोके कार्यम् । असतश्चेन्नामरूपादि कार्यम् , निरात्मकत्वान्नोपलभ्येत ; उपलभ्यते तु ; तस्मादस्ति ब्रह्म । असतश्चेत्कार्यं गृह्यमाणमपि असदन्वितमेव स्यात् ; न चैवम् ; तस्मादस्ति ब्रह्म । तत्र ‘कथमसतः सज्जायेत’ (छा. उ. ६ । २ । २) इति श्रुत्यन्तरमसतः सज्जन्मासम्भवमन्वाचष्टे न्यायतः । तस्मात्सदेव ब्रह्मेति युक्तम् । तद्यदि मृद्बीजादिवत् कारणं स्यात् , अचेतनं तर्हि । न ; कामयितृत्वात् । न हि कामयित्रचेतनमस्ति लोके । सर्वज्ञं हि ब्रह्मेत्यवोचाम ; अतः कामयितृत्वोपपत्तिः । कामयितृत्वादस्मदादिवदनाप्तकाममिति चेत् , न ; स्वातन्त्र्यात् । यथा अन्यान्परवशीकृत्य कामादिदोषाः प्रवर्तयन्ति, न तथा ब्रह्मणः प्रवर्तकाः कामाः । कथं तर्हि ? सत्यज्ञानलक्षणाः स्वात्मभूतत्वाद्विशुद्धाः । न तैर्ब्रह्म प्रवर्त्यते ; तेषां तु तत्प्रवर्तकं ब्रह्म प्राणिकर्मापेक्षया । तस्मात्स्वातन्त्र्यं कामेषु ब्रह्मणः ; अतो न अनाप्तकामं ब्रह्म । साधनान्तरानपेक्षत्वाच्च । यथा अन्येषामनात्मभूता धर्मादिनिमित्तापेक्षाः कामाः स्वात्मव्यतिरिक्तकार्यकरणसाधनान्तरापेक्षाश्च, न तथा ब्रह्मणः । किं तर्हि ? स्वात्मनोऽनन्याः । तदेतदाह - सोऽकामयत । सः आत्मा यस्मादाकाशः सम्भूतः, अकामयत कामितवान् । कथम् ? बहु प्रभूतं स्यां भवेयम् । कथमेकस्यार्थान्तराननुप्रवेशे बहुत्वं स्यादिति, उच्यते - प्रजायेय उत्पद्येय । न हि पुत्रोत्पत्तेरिवार्थान्तरविषयं बहुभवनम् । कथं तर्हि ? आत्मस्थानभिव्यक्तनामरूपाभिव्यक्त्या । यदा आत्मस्थे अनभिव्यक्ते नामरूपे व्याक्रियेते, तदा आत्मस्वरूपापरित्यागेनैव ब्रह्मणः अप्रविभक्तदेशकाले सर्वावस्थासु व्याक्रियेते । तदेतन्नामरूपव्याकरणं ब्रह्मणो बहुभवनम् । नान्यथा निरवयवस्य ब्रह्मणो बहुत्वापत्तिरुपपद्यते अल्पत्वं वा, यथा आकाशस्याल्पत्वं बहुत्वं च वस्त्वन्तरकृतमेव । अतः तद्द्वारेणैवात्मा बहु भवति । न ह्यात्मनोऽन्यदनात्मभूतं तत्प्रविभक्तदेशकालं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा वस्तु विद्यते । अतः नामरूपे सर्वावस्थे ब्रह्मणैवात्मवती । न ब्रह्म तदात्मकम् । ते तत्प्रत्याख्याने न स्त एवेति तदात्मके उच्येते । ताभ्यां च उपाधिभ्यां ज्ञातृज्ञेयज्ञानशब्दार्थादिसर्वसंव्यवहारभाग्ब्रह्म । सः आत्मा एवंकामः सन् तपः अतप्यत । तप इति ज्ञानमुच्यते, ‘यस्य ज्ञानमयं तपः’ (मु. उ. १ । १ । ८) इति श्रुत्यन्तरात् । आप्तकामत्वाच्च इतरस्य असम्भव एव तपसः । तत्तपः अतप्यत तप्तवान् , सृज्यमानजगद्रचनादिविषयामालोचनामकरोदात्मेत्यर्थः । सः एवमालोच्य तपः तप्त्वा प्राणिकर्मादिनिमित्तानुरूपम् इदं सर्वं जगत् देशतः कालतः नाम्ना रूपेण च यथानुभवं सर्वैः प्राणिभिः सर्वावस्थैरनुभूयमानम् असृजत सृष्टवान् । यदिदं किञ्च यत्किञ्चेदमविशिष्टम् , तत् इदं जगत् सृष्ट्वा, किमकरोदिति, उच्यते - तदेव सृष्टं जगत् अनुप्राविशदिति ॥
तत्रैतच्चिन्त्यम् - कथमनुप्राविशदिति । किम् , यः स्रष्टा, स तेनैवात्मनानुप्राविशत् , उत अन्येनेति ? किं तावद्युक्तम् ? क्त्वाप्रत्ययश्रवणात् , यः स्रष्टा, स एवानुप्राविशदिति । ननु न युक्तं मृद्वच्चेत्कारणं ब्रह्म, तदात्मकत्वात्कार्यस्य, कारणमेव हि कार्यात्मना परिणमते ; अतः अप्रविष्टस्यैव कार्योत्पत्तेरूर्ध्वं पृथक्कारणस्य पुनः प्रवेशोऽनुपपन्नः । न हि घटपरिणामव्यतिरेकेण मृदो घटे प्रवेशोऽस्ति । यथा घटे चूर्णात्मना मृदोऽनुप्रवेशः, एवमनेन आत्मना नामरूपकार्ये अनुप्रवेश आत्मनः इति चेत् , श्रुत्यन्तराच्च ‘अनेन जीवेनात्मनानुप्रविश्य’ (छा. उ. ६ । ३ । २) इति ; नैवं युक्तम् , एकत्वाद्ब्रह्मणः । मृदात्मनस्त्वनेकत्वात् सावयवत्वाच्च युक्तो घटे मृदश्चूर्णात्मनानुप्रवेशः, मृदश्चूर्णस्य अप्रविष्टदेशत्वाच्च । न त्वात्मन एकत्वे सति निरवयवत्वादप्रविष्टदेशाभावाच्च प्रवेश उपपद्यते ; कथं तर्हि प्रवेशः स्यात् ? युक्तश्च प्रवेशः, श्रुतत्वात् - ‘तदेवानुप्राविशत्’ इति । सावयवमेवास्तु ; तर्हि सावयवत्वात् मुखो हस्तप्रवेशवत् नामरूपकार्ये जीवात्मनानुप्रवेशो युक्त एवेति चेत् , न ; अशून्यदेशत्वात् । न हि कार्यात्मना परिणतस्य नामरूपकार्यदेशव्यतिरेकेण आत्मशून्यः प्रदेशोऽस्ति, यं प्रविशेज्जीवात्मना । कारणमेव चेत्प्रविशेत् , जीवात्मत्वं जह्यात् , यथा घटो मृत्प्रवेशे घटत्वं जहाति । ‘तदेवानुप्राविशत्’ इति च श्रुतेर्न कारणानुप्रवेशो युक्तः । कार्यान्तरमेव स्यादिति चेत् - तदेवानुप्राविशदिति जीवात्मरूपं कार्यं नामरूपपरिणतं कार्यान्तरमेव आपद्यत इति चेत् , न ; विरोधात् । न हि घटो घटान्तरमापद्यते, व्यतिरेकश्रुतिविरोधाच्च । जीवस्य नामरूपकार्यव्यतिरेकानुवादिन्यः श्रुतयो विरुध्येरन् ; तदापत्तौ मोक्षासम्भवाच्च । न हि यतो मुच्यमानः, तदेव आपद्यते । न हि शृङ्खलापत्तिः बद्धस्य तस्करादेः । बाह्यान्तर्भेदेन परिणतमिति चेत् - तदेव कारणं ब्रह्म शरीराद्याधारत्वेन तदन्तर्जीवात्मना आधेयत्वेन च परिणतमिति चेत् , न ; बहिष्ठस्य प्रवेशोपपत्तेः । न हि यो यस्यान्तःस्थः स एव तत्प्रविष्ट उच्यते । बहिष्ठस्यानुप्रवेशः स्यात् , प्रवेशशब्दार्थस्यैवं दृष्टत्वात् - यथा गृहं कृत्वा प्राविशदिति । जलसूर्यकादिप्रतिबिम्बवत् प्रवेशः स्यादिति चेत् , न ; अपरिच्छिन्नत्वादमूर्तत्वाच्च । परिच्छिन्नस्य मूर्तस्यान्यस्य अन्यत्र प्रसादस्वभावके जलादौ सूर्यकादिप्रतिबिम्बोदयः स्यात् , न त्वात्मनः ; अमूर्तत्वात् , आकाशादिकारणस्य आत्मनः व्यापकत्वात् । तद्विप्रकृष्टदेशप्रतिबिम्बाधारवस्त्वन्तराभावाच्च प्रतिबिम्बवत्प्रवेशो न युक्तः । एवं तर्हि नैवास्ति प्रवेशः ; न च गत्यन्तरमुपलभामहे, ‘तदेवानुप्राविशत्’ इति श्रुतेः । श्रुतिश्च नोऽतीन्द्रियविषये विज्ञानोत्पत्तौ निमित्तम् । न चास्माद्वाक्यात् यत्नवतामपि विज्ञानमुत्पद्यते । हन्त तर्ह्यनर्थकत्वादपोह्यमेतद्वाक्यम् ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति ; न, अन्यार्थत्वात् । किमर्थमस्थाने चर्चा ? प्रकृतो ह्यन्यो विवक्षितोऽस्य वाक्यार्थः अस्ति ; स स्मर्तव्यः - ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) ‘यो वेद निहितं गुहायाम्’ (तै. उ. २ । १ । १) इति । तद्विज्ञानं च विवक्षितम् ; प्रकृतं च तत् । ब्रह्मस्वरूपावगमाय च आकाशाद्यन्नमयान्तं कार्यं प्रदर्शितम् ; ब्रह्मावगमश्च आरब्धः । तत्र अन्नमयादात्मनोऽन्योऽन्तर आत्मा प्राणमयः ; तदन्तर्मनोमयो विज्ञानमय इति विज्ञानगुहायां प्रवेशितः ; तत्र च आनन्दमयो विशिष्ट आत्मा प्रदर्शितः । अतः परमानन्दमयलिङ्गाधिगमद्वारेण आनन्दविवृद्ध्यवसान आत्मा । ब्रह्म पुच्छं प्रतिष्ठा सर्वविकल्पास्पदो निर्विकल्पोऽस्यामेव गुहायामधिगन्तव्य इति तत्प्रवेशः प्रकल्प्यते । न ह्यन्यत्रोपलभ्यते ब्रह्म, निर्विशेषत्वात् ; विशेषसम्बन्धो ह्युपलब्धिहेतुर्दृष्टः - यथा राहोश्चन्द्रार्कविशेषसम्बन्धः । एवमन्तःकरणगुहात्मसम्बन्धो ब्रह्मण उपलब्धिहेतुः, संनिकर्षात् , अवभासात्मकत्वाच्च अन्तःकरणस्य । यथा च आलोकविशिष्टघटाद्युपलब्धिः, एवं बुद्धिप्रत्ययालोकविशिष्टात्मोपलब्धिः स्यात् , तस्मात् उपलब्धिहेतौ गुहायां निहितमिति प्रकृतमेव । तद्वृत्तिस्थानीये त्विह पुनस्तत्सृष्ट्वा तदेवानुप्राविशदित्युच्यते ॥
देवेदमाकाशादिकारणं कार्यं सृष्ट्वा तदनुप्रविष्टमिवान्तर्गुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञात्रित्येवं विशेषवदुपलभ्यते । स एव तस्य प्रवेशः ; तस्मादस्ति तत्कारणं ब्रह्म । अतः अस्तित्वादस्तीत्येवोपलब्धव्यं तत् । तत् कार्यमनुप्रविश्य ; किम् ? सच्च मूर्तं त्यच्च अमूर्तम् अभवत् । मूर्तामूर्ते ह्यव्याकृतनामरूपे आत्मस्थे अन्तर्गतेन आत्मना व्याक्रियेते मूर्तामूर्तशब्दवाच्ये । ते आत्मना त्वप्रविभक्तदेशकाले इति कृत्वा आत्मा ते अभवदित्युच्यते । किं च, निरुक्तं चानिरुक्तं च, निरुक्तं नाम निष्कृष्य समानासमानजातीयेभ्यः देशकालविशिष्टतया इदं तदित्युक्तम् ; अनिरुक्तं तद्विपरीतम् ; निरुक्तानिरुक्ते अपि मूर्तामूर्तयोरेव विशेषणे । यथा सच्च त्यच्च प्रत्यक्षपरोक्षे, तथा निलयनं चानिलयनं च । निलयनं नीडम् आश्रयः मूर्तस्यैव धर्मः ; अनिलयनं तद्विपरीतम् अमूर्तस्यैव धर्मः । त्यदनिरुक्तानिलयनानि अमूर्तधर्मत्वेऽपि व्याकृतविषयाण्येव, सर्गोत्तरकालभावश्रवणात् । त्यदिति प्राणाद्यनिरुक्तं तदेवानिलयनं च । अतो विशेषणानि अमूर्तस्य व्याकृतविषयाण्येवैतानि । विज्ञानं चेतनम् ; अविज्ञानं तद्रहितमचेतनं पाषाणादि । सत्यं च व्यवहारविषयम् , अधिकारात् ; न परमार्थसत्यम् ; एकमेव हि परमार्थसत्यं ब्रह्म । इह पुनः व्यवहारविषयमापेक्षिकं सत्यम् , मृगतृष्णिकाद्यनृतापेक्षया उदकादि सत्यमुच्यते । अनृतं च तद्विपरीतम् । किं पुनः ? एतत्सर्वमभवत् , सत्यं परमार्थसत्यम् ; किं पुनस्तत् ? ब्रह्म, ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति प्रकृतत्वात् । यस्मात् , सत्त्यदादिकं मूर्तामूर्तधर्मजातं यत्किञ्चेदं सर्वमविशिष्टं विकारजातमेकमेव सच्छब्दवाच्यं ब्रह्माभवत् , तद्व्यतिरेकेणाभावान्नामरूपविकारस्य, तस्मात् तत् ब्रह्म सत्यमित्याचक्षते ब्रह्मविदः । अस्ति नास्तीत्यनुप्रश्नः प्रकृतः ; तस्य प्रतिवचनविषये एतदुक्तम् - ‘आत्माकामयत बहु स्याम्’ इति । स यथाकामं च आकाशादिकार्यं सत्त्यदादिलक्षणं सृष्ट्वा तदनुप्रविश्य पश्यञ्शृण्वन्मन्वानो विजानन् बह्वभवत् ; तस्मात् तदेवेदमाकाशादिकारणं कार्यस्थं परमे व्योमन् हृदयगुहायां निहितं तत्प्रत्ययावभासविशेषेणोपलभ्यमानमस्तीत्येवं विजानीयादित्युक्तं भवति । तत् एतस्मिन्नर्थे ब्राह्मणोक्ते एषः श्लोकः मन्त्रः भवति । यथा पूर्वेष्वन्नमयाद्यात्मप्रकाशकाः पञ्चस्वपि, एवं सर्वान्तरतमात्मास्तित्वप्रकाशकोऽपि मन्त्रः कार्यद्वारेण भवति ॥
इति षष्ठानुवाकभाष्यम् ॥
असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानं स्वयमकुरुत । तस्मात्तत्सुकृतमुच्यत इति । यद्वै तत्सुकृतम् । रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति । को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति । यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य । तदप्येष श्लोको भवति ॥ १ ॥
असद्वा इदमग्र आसीत् । असदिति व्याकृतनामरूपविशेषविपरीतरूपम् अव्याकृतं ब्रह्म उच्यते ; न पुनरत्यन्तमेवासत् । न ह्यसतः सज्जन्मास्ति । इदम् इति नामरूपविशेषवद्व्याकृतं जगत् ; अग्रे पूर्वं प्रागुत्पत्तेः ब्रह्मैव असच्छब्दवाच्यमासीत् । ततः असतः वै सत् प्रविभक्तनामरूपविशेषम् अजायत उत्पन्नम् । किं ततः प्रविभक्तं कार्यमिति - पितुरिव पुत्रः ? नेत्याह । तत् असच्छब्दवाच्यं स्वयमेव आत्मानमेव अकुरुत कृतवत् । यस्मादेवम् , तस्मात् तत् ब्रह्मैव सुकृतं स्वयं कर्तृ उच्यते । स्वयं कर्तृ ब्रह्मेति प्रसिद्धं लोके सर्वकारणत्वात् । यस्माद्वा स्वयमकरोत्सर्वं सर्वात्मना, तस्मात्पुण्यरूपेणापि तदेव ब्रह्म कारणं सुकृतम् उच्यते । सर्वथापि तु फलसम्बन्धादिकारणं सुकृतशब्दवाच्यं प्रसिद्धं लोके । यदि पुण्यं यदि वा अन्यत् सा प्रसिद्धिः नित्ये चेतनकारणे सति उपपद्यते, तस्मादस्ति ब्रह्म, सुकृतप्रसिद्धेरिति । इतश्चास्ति ; कुतः ? रसत्वात् । कुतो रसत्वप्रसिद्धिर्ब्रह्मण इत्यत आह - यद्वै तत्सुकृतं रसो वै सः । रसो नाम तृप्तिहेतुः आनन्दकरो मधुराम्लादिः प्रसिद्धो लोके । रसमेव हि अयं लब्ध्वा प्राप्य आनन्दी सुखी भवति । नासत आनन्दहेतुत्वं दृष्टं लोके । बाह्यानन्दसाधनरहिता अपि अनीहा निरेषणा ब्राह्मणा बाह्यरसलाभादिव सानन्दा दृश्यन्ते विद्वांसः ; नूनं ब्रह्मैव रसस्तेषाम् । तस्मादस्ति तत्तेषामानन्दकारणं रसवद्ब्रह्म । इतश्चास्ति ; कुतः ? प्राणनादिक्रियादर्शनात् । अयमपि हि पिण्डो जीवतः प्राणेन प्राणिति अपानेन अपानिति । एवं वायवीया ऐन्द्रियकाश्च चेष्टाः संहतैः कार्यकरणैर्निर्वर्त्यमाना दृश्यन्ते । तच्चैकार्थवृत्तित्वेन संहननं नान्तरेण चेतनमसंहतं सम्भवति, अन्यत्रादर्शनात् । तदाह - यत् यदि एषः आकाशे परमे व्योम्नि गुहायां निहित आनन्दो न स्यात् न भवेत् , को ह्येव लोके अन्यात् अपानचेष्टां कुर्यादित्यर्थः । कः प्राण्यात् प्राणनं वा कुर्यात् ; तस्मादस्ति तद्ब्रह्म, यदर्थाः कार्यकरणप्राणनादिचेष्टाः ; तत्कृत एव च आनन्दो लोकस्य । कुतः ? एष ह्येव पर आत्मा आनन्दयाति आनन्दयति सुखयति लोकं धर्मानुरूपम् । स एवात्मा आनन्दरूपोऽविद्यया परिच्छिन्नो विभाव्यते प्राणिभिरित्यर्थः । भयाभयहेतुत्वाद्विद्वदविदुषोरस्ति तद्ब्रह्म । सद्वस्त्वाश्रयणेन हि अभयं भवति ; नासद्वस्त्वाश्रयणेन भयनिवृत्तिरुपपद्यते । कथमभयहेतुत्वमिति, उच्यते - यदा ह्येव यस्मात् एषः साधकः एतस्मिन् ब्रह्मणि - किंविशिष्टे ? अदृश्ये दृश्यं नाम द्रष्टव्यं विकारः, दर्शनार्थत्वाद्विकारस्य ; न दृश्यम् अदृश्यम् , अविकार इत्यर्थः । एतस्मिन्नदृश्ये अविकारेऽविषयभूते, अनात्म्ये अशरीरे, यस्माददृश्यं तस्मादनात्म्यम् , यस्मादनात्म्यं तस्मादनिरुक्तम् ; विशेषो हि निरुच्यते ; विशेषश्च विकारः ; अविकारं च ब्रह्म, सर्वविकारहेतुत्वात् ; तस्मात् अनिरुक्तम् । यत एवम् , तस्मादनिलयनं निलयनं नीड आश्रयः न निलयनम् अनिलयनम् अनाधारं तस्मिन् एतस्मिन् अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने सर्वकार्यधर्मविलक्षणे ब्रह्मणीति वाक्यार्थः । अभयमिति क्रियाविशेषणम् । अभयामिति वा लिङ्गान्तरं परिणम्यते । प्रतिष्ठां स्थितिमात्मभावं विन्दते लभते । अथ तदा सः तस्मिन्नानात्वस्य भयहेतोरविद्याकृतस्यादर्शनादभयं गतो भवति । स्वरूपप्रतिष्ठो ह्यसौ यदा भवति, तदा नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति । अन्यस्य ह्यन्यतो भयं भवति, न आत्मन एव आत्मनो भयं युक्तम् ; तस्मात् आत्मैव आत्मनः अभयकारणम् । सर्वतो हि निर्भया ब्राह्मणा दृश्यन्ते सत्सु भयहेतुषु ; तच्चायुक्तमसति भयत्राणे ब्रह्मणि । तस्मात्तेषामभयदर्शनादस्ति तदभयकारणं ब्रह्मेति । कदा असौ अभयं गतो भवति साधकः ? यदा नान्यत्पश्यति आत्मनि च अन्तरं भेदं न कुरुते, तदा अभयं गतो भवतीत्यभिप्रायः । यदा पुनरविद्यावस्थायां हि यस्मात् एषः अविद्यावान् अविद्यया प्रत्युपस्थापितं वस्तु तैमिरिकद्वितीयचन्द्रवत्पश्यत्यात्मनि च एतस्मिन् ब्रह्मणि, उत अपि, अरम् अल्पमपि, अन्तरं छिद्रं भेददर्शनं कुरुते ; भेददर्शनमेव हि भयकारणम् ; अल्पमपि भेदं पश्यतीत्यर्थः । अथ तस्माद्भेददर्शनाद्धेतोः तस्य भेददर्शिनः आत्मनो भयं भवति । तस्मादात्मैवात्मनो भयकारणमविदुषः ; तदेतदाह - तत् ब्रह्म त्वेव भयं भेददर्शिनो विदुषः ईश्वरोऽन्यो मत्तः अहमन्यः संसारीत्येवंविदुषः भेददृष्टमीश्वराख्यं तदेव ब्रह्म अल्पमप्यन्तरं कुर्वतः भयं भवति एकत्वेन अमन्वानस्य । तस्मात् विद्वानप्यविद्वानेवासौ, योऽयमेकमभिन्नमात्मतत्त्वं न पश्यति । उच्छेदहेतुदर्शनाद्ध्युच्छेद्याभिमतस्य भयं भवति ; अनुच्छेद्यो ह्युच्छेदहेतुः ; तत्र असत्युच्छेदहेतौ उच्छेद्ये न तद्दर्शनकार्यं भयं युक्तम् । सर्वं च जगद्भयवद्दृश्यते । तस्माज्जगतो भयदर्शनाद्गम्यते - नूनं तदस्ति भयकारणमुच्छेदहेतुरनुच्छेद्यात्मकम् , यतो जगद्बिभेतीति । तत् एतस्मिन्नप्यर्थे एषः श्लोकः भवति ॥
इति सप्तमनुवाकभाष्यम् ॥
भीषास्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति । सैषानन्दस्य मीमां सा भवति । युवा स्यात्साधुयुवाध्यायकः । आशिष्ठो दृढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः ॥ १ ॥
स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितॄणां चिरलोकलोकानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः । स एक आजानजानां देवानामानन्दः ॥ २ ॥
श्रोत्रियस्य चाकामहतस्य । ते ये शतमाजानजानां देवानामानन्दाः । स एकः कर्मदेवानां देवानामानन्दः । ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य । ते ये शतं कर्मदेवानां देवानामानन्दाः । स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवानामानन्दाः । स एक इन्द्रस्यानन्दः ॥ ३ ॥
श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्यानन्दाः । स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहातस्य ॥ ४ ॥
भीषा भयेन अस्मात् वातः पवते । भीषोदेति सूर्यः । भीषा अस्मात् अग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति । वातादयो हि महार्हाः स्वयमीश्वराः सन्तः पवनादिकार्येष्वायासबहुलेषु नियताः प्रवर्तन्ते ; तद्युक्तं प्रशास्तरि सति ; यस्मात् नियमेन तेषां प्रवर्तनम् , तस्मादस्ति भयकारणं तेषां प्रशास्तृ ब्रह्म । यतस्ते भृत्या इव राज्ञः अस्मात् ब्रह्मणः भयेन प्रवर्तन्ते तच्च भयकारणमानन्दं ब्रह्म । तस्य अस्य ब्रह्मणः आनन्दस्य एषा मीमांसा विचारणा भवति । किमानन्दस्य मीमांस्यमिति, उच्यते - किमानन्दो विषयविषयिसम्बन्धजनितः लौकिकानन्दवत् , आहोस्वित् स्वाभाविकः, इत्येवमेषा आनन्दस्य मीमांसा ॥
तत्र लौकिक आनन्दो बाह्याध्यात्मिकसाधनसम्पत्तिनिमित्त उत्कृष्टः । सः य एष निर्दिश्यते ब्रह्मानन्दानुगमार्थम् । अनेन हि प्रसिद्धेन आनन्देन व्यावृत्तविषयबुद्धिगम्य आनन्दोऽनुगन्तुं शक्यते । लौकिकोऽप्यानन्दः ब्रह्मानन्दस्यैव मात्रा ; अविद्यया तिरस्क्रियमाणे विज्ञाने उत्कृष्यमाणायां च अविद्यायां ब्रह्मादिभिः कर्मवशात् यथाविज्ञानं विषयादिसाधनसम्बन्धवशाच्च विभाव्यमानश्च लोकेऽनवस्थितो लौकिकः सम्पद्यते ; स एव अविद्याकामकर्मापकर्षेण मनुष्यगन्धर्वाद्युत्तरोत्तरभूमिषु अकामहतविद्वच्छ्रोत्रियप्रत्यक्षो विभाव्यते शतगुणोत्तरोत्तरोत्कर्षेण यावद्धिरण्यगर्भस्य ब्रह्मण आनन्द इति ॥
निरस्ते त्वविद्याकृते विषयविषयिविभागे, विद्यया स्वाभाविकः परिपूर्णः एकः आनन्दः अद्वैतः भवतीत्येतमर्थं विभावयिष्यन्नाह - युवा प्रथमवयाः ; साधुयुवेति साधुश्चासौ युवा चेति यूनो विशेषणम् ; युवाप्यसाधुर्भवति साधुरप्ययुवा, अतो विशेषणं युवा स्यात्साधुयुवेति ; अध्यायकः अधीतवेदः । आशिष्ठः आशास्तृतमः ; दृढिष्ठः दृढतमः ; बलिष्ठः बलवत्तमः ; एवमाध्यात्मिकसाधनसम्पन्नः । तस्येयं पृथिवी उर्वी सर्वा वित्तस्य वित्तेनोपभोगसाधनेन दृष्टार्थेनादृष्टार्थेन च कर्मसाधनेन सम्पन्ना पूर्णा राजा पृथिवीपतिरित्यर्थः । तस्य च य आनन्दः, सः एकः मानुषः मनुष्याणां प्रकृष्टः एक आनन्दः । ते ये शतं मानुषा आनन्दाः, स एको मनुष्यगन्धर्वाणामानन्दः ; मानुषानन्दात् शतगुणेनोत्कृष्टः मनुष्यगन्धर्वाणामानन्दः भवति । मनुष्याः सन्तः कर्मविद्याविशेषात् गन्धर्वत्वं प्राप्ता मनुष्यगन्धर्वाः । ते ह्यन्तर्धानादिशक्तिसम्पन्नाः सूक्ष्मकार्यकरणाः ; तस्मात्प्रतिघाताल्पत्वं तेषां द्वन्द्वप्रतिघातशक्तिसाधनसम्पत्तिश्च । ततः अप्रतिहन्यमानस्य प्रतीकारवतः मनुष्यगन्धर्वस्य स्याच्चित्तप्रसादः । तत्प्रसादविशेषात्सुखविशेषाभिव्यक्तिः । एवं पूर्वस्याः पूर्वस्या भूमेरुत्तरस्यामुत्तरस्यां भूमौ प्रसादविशेषतः शतगुणेन आनन्दोत्कर्ष उपपद्यते । प्रथमं तु अकामहताग्रहणं मनुष्यविषयभोगकामानभिहतस्य श्रोत्रियस्य मनुष्यानन्दात् शतगुणेन आनन्दोत्कर्षः मनुष्यगन्धर्वेण तुल्यो वक्तव्य इत्येवमर्थम् । साधुयुवा अध्यायक इति श्रोत्रियत्वावृजिनत्वे गृह्येते । ते ह्यविशिष्टे सर्वत्र । अकामहतत्वं तु विषयोत्कर्षापकर्षतः सुखोत्कर्षापकर्षाय विशेष्यते । अतः अकामहतग्रहणम् , तद्विशेषतः शतगुणसुखोत्कर्षोपलब्धेः अकामहतत्वस्य परमानन्दप्राप्तिसाधनत्वविधानार्थम् । व्याख्यातमन्यत् । देवगन्धर्वा जातित एव । चिरलोकलोकानामिति पितॄणां विशेषणम् । चिरकालस्थायी लोको येषां पितॄणाम् , ते चिरलोकलोका इति । आजान इति देवलोकः तस्मिन्नाजाने जाता आजानजा देवाः, स्मार्तकर्मविशेषतो देवस्थानेषु जाताः । कर्मदेवा ये वैदिकेन कर्मणा अग्निहोत्रादिना केवलेन देवानपियन्ति । देवा इति त्रयस्त्रिंशद्धविर्भुजः ; इन्द्रस्तेषां स्वामी ; तस्य आचार्यो बृहस्पतिः । प्रजापतिः विराट् त्रैलोक्यशरीरो ब्रह्मा समष्टिव्यष्टिरूपः संसारमण्डलव्यापी । यत्रैते आनन्दभेदा एकतां गच्छन्ति, धर्मश्च तन्निमित्तः ज्ञानं च तद्विषयम् अकामहतत्वं च निरतिशयं यत्र, स एष हिरण्यगर्भो ब्रह्मा, तस्यैष आनन्दः श्रोत्रियेण अवृजिनेन अकामहतेन च सर्वतः प्रत्यक्षमुपलभ्यते । तस्मादेतानि त्रीणि साधनानीत्यवगम्यते । तत्र श्रोत्रियत्वावृजिनत्वे नियते अकामहतत्वं तु उत्कृष्यत इति प्रकृष्टसाधनता अवगम्यते । तस्य अकामहतत्वप्रकर्षतश्चोपलभ्यमानः श्रोत्रियप्रत्यक्षो ब्रह्मण आनन्दः यस्य परमानन्दस्य मात्रा एकदेशः, ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इति श्रुत्यन्तरात् । स एष आनन्दः - यस्य मात्रा समुद्राम्भस इव विप्रुषः प्रविभक्ताः यत्रैकतां गताः - स एष परमानन्दः स्वाभाविकः, अद्वैतात् ; आनन्दानन्दिनोश्च अविभागोऽत्र ॥
तदेतन्मीमांसाफलमुपसंह्रियते -
स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रामति । एतं प्राणमयमात्मानमुपसङ्क्रामति । एतं मनोमयमात्मानमुपसङ्क्रामति । एतं विज्ञानमयमात्मानमुपसङ्क्रामति । एतमानन्दमयमात्मानमुपसङ्क्रामति । तदप्येष श्लोको भवति ॥ ५ ॥
स यश्चायं पुरुष इति । यः गुहायां निहितः परमे व्योम्नि आकाशादिकार्यं सृष्ट्वा अन्नमयान्तम् , तदेवानुप्रविष्टः, सः य इति निश्चीयते । कोऽसौ ? अयं पुरुषे । यश्चासावादित्ये यः परमानन्दः श्रोत्रियप्रत्यक्षो निर्दिष्टः, यस्यैकदेशं ब्रह्मादीनि भूतानि सुखार्हाण्युपजीवन्ति, सः यश्चासावादित्ये इति निर्दिश्यते । स एकः भिन्नप्रदेशघटाकाशाकाशैकत्ववत् । ननु तन्निर्देशे स यश्चायं पुरुष इत्यविशेषतोऽध्यात्मं न युक्तो निर्देशः ; यश्चायं दक्षिणेऽक्षन्निति तु युक्तः, प्रसिद्धत्वात् । न, पराधिकारात् । परो ह्यात्मा अत्र अधिकृतः ‘अदृश्येऽनात्म्ये’ ‘भीषास्माद्वातः पवते’ ‘सैषानन्दस्य मीमांसा’ इति । न हि अकस्मादप्रकृतो युक्तो निर्देष्टुम् ; परमात्मविज्ञानं च विवक्षितम् । तस्मात् पर एव निर्दिश्यते - स एक इति । नन्वानन्दस्य मीमांसा प्रकृता ; तस्या अपि फलमुपसंहर्तव्यम् । अभिन्नः स्वाभाविकः आनन्दः परमात्मैव, न विषयविषयिसम्बन्धजनित इति । ननु तदनुरूप एव अयं निर्देशः - ‘स यश्चायं पुरुषे यश्चासावादित्ये स एकः’ इति भिन्नाधिकरणस्थविशेषोपमर्देन । नन्वेवमप्यादित्यविशेषग्रहणमनर्थकम् ; न अनर्थकम् , उत्कर्षापकर्षापोहार्थत्वात् । द्वैतस्य हि यो मूर्तामूर्तलक्षणस्य पर उत्कर्षः सवित्रभ्यन्तर्गतः स चेत्पुरुषगतविशेषोपमर्देन परमानन्दमपेक्ष्य समो भवति, न कश्चिदुत्कर्षोऽपकर्षो वा तां गतिं गतस्येत्यभयं प्रतिष्ठां विन्दत इत्युपपन्नम् ॥
अस्ति नास्तीत्यनुप्रश्नो व्याख्यातः । कार्यरसलाभप्राणनाभयप्रतिष्ठाभयदर्शनोपपत्तिभ्योऽस्त्येव तदाकाशादिकारणं ब्रह्मेत्यपाकृतः अनुप्रश्न एकः ; द्वावन्यानुप्रश्नौ विद्वदविदुषोर्ब्रह्मप्राप्त्यप्राप्तिविषयौ ; तत्र विद्वान्समश्नुते न समश्नुत इत्यनुप्रश्नोऽन्त्यः ; तदपाकरणायोच्यते । मध्यमोऽनुप्रश्नः अन्त्यापाकरणादेव अपाकृत इति तदपाकरणाय न यत्यते । स यः कश्चित् एवं यथोक्तं ब्रह्म उत्सृज्योत्कर्षापकर्षमद्वैतं सत्यं ज्ञानमनन्तमस्मीत्येवं वेत्तीति एवंवित् ; एवंशब्दस्य प्रकृतपरामर्शार्थत्वात् । स किम् ? अस्माल्लोकात्प्रेत्य दृष्टादृष्टेष्टविषयसमुदायो हि अयं लोकः, तस्मादस्माल्लोकात्प्रेत्य प्रत्यावृत्य निरपेक्षो भूत्वा एतं यथाव्याख्यातम् अन्नमयमात्मानमुपसङ्क्रामति विषयजातमन्नमयात्पिण्डात्मनो व्यतिरिक्तं न पश्यति, सर्वं स्थूलभूतमन्नमयमात्मानं पश्यतीत्यर्थः । ततः अभ्यन्तरमेतं प्राणमयं सर्वान्नमयात्मस्थमविभक्तम् । अथैतं मनोमयं विज्ञानमयमानन्दमयमात्मानमुपसङ्क्रामति । अथादृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते ॥
तत्रैतच्चिन्त्यम् - कोऽयमेवंवित् , कथं वा सङ्क्रामतीति ; किं परस्मादात्मनोऽन्यः सङ्क्रमणकर्ता प्रविभक्तः, उत स एवेति । किं ततः ? यद्यन्यः स्यात् , श्रुतिविरोधः - ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) ‘अन्योऽसावन्योऽहमस्मीति । न स वेद’ (बृ. उ. १ । ४ । १०) ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । १६) इति । अथ स एव आनन्दमयमात्मानमुपसङ्क्रामतीति, कर्मकर्तृत्वानुपपत्तिः । परस्यैव च संसारित्वं पराभावो वा । यद्युभयथा प्राप्तो दोषो न परिहर्तुं शक्यत इति, व्यर्था चिन्ता । अथ अन्यतरस्मिन्पक्षे दोषाप्राप्तिः तृतीये वा पक्षे अदुष्टे, स एव शास्त्रार्थ इति व्यर्थैव चिन्ता ; न, तन्निर्धारणार्थत्वात् । सत्यं प्राप्तो दोषो न शक्यः परिहर्तुमन्यतरस्मिन् तृतीये वा पक्षे अदुष्टे अवधृते व्यर्था चिन्ता स्यात् ; न तु सोऽवधृत इति तदवधारणार्थत्वादर्थवत्येवैषा चिन्ता । सत्यमर्थवती चिन्ता, शास्त्रार्थावधारणार्थत्वात् । चिन्तयसि च त्वम् , न तु निर्णेष्यसि ; किं न निर्णेतव्यमिति वेदवचनम् ? न ; कथं तर्हि ? बहुप्रतिपक्षत्वात् ; एकत्ववादी त्वम् , वेदार्थपरत्वात् ; बहवो हि नानात्ववादिनो वेदबाह्याः त्वत्प्रतिपक्षाः ; अतो ममाशङ्का - न निर्णेष्यसीति । एतदेव मे स्वस्त्ययनम् - यन्मामेकयोगिनमनेकयोगिबहुप्रतिपक्षमात्थ । अतो जेष्यामि सर्वान् ; आरभे च चिन्ताम् ॥
स एव तु स्यात् , तद्भावस्य विवक्षितत्वात् । तद्विज्ञानेन परमात्मभावो हि अत्र विवक्षितः - ‘ब्रह्मविदाप्नोति परम्’ इति । न हि अन्यस्य अन्यभावापत्तिरुपपद्यते । ननु तस्यापि तद्भावापत्तिरनुपपन्नैव । न, अविद्याकृतानात्मापोहार्थत्वात् । या हि ब्रह्मविद्यया स्वात्मप्राप्तिरुपदिश्यते, सा अविद्याकृतस्य अन्नादिविशेषात्मनः आत्मत्वेनाध्यारोपितस्य अनात्मनः अपोहार्था । कथमेवमर्थता अवगम्यते ? विद्यामात्रोपदेशात् । विद्यायाश्च दृष्टं कार्यमविद्यानिवृत्तिः ; तच्चेह विद्यामात्रमात्मप्राप्तौ साधनमुपदिश्यते । मार्गविज्ञानोपदेशवदिति चेत् , तदात्मत्वे विद्यामात्रसाधनोपदेशोऽहेतुः । कस्मात् ? देशान्तरप्राप्तौ मार्गविज्ञानोपदेशदर्शनात् । न हि ग्राम एव गन्तेति चेत् , न ; वैधर्म्यात् । तत्र हि ग्रामविषयं नोपदिश्यते, तत्प्राप्तिमार्गविषयमेवोपदिश्यते विज्ञानम् ; न तथेह ब्रह्मविज्ञानव्यतिरेकेण साधनान्तरविषयं विज्ञानमुपदिश्यते । उक्तकर्मादिसाधनापेक्षं ब्रह्मविज्ञानं परप्राप्तौ साधनमुपदिश्यत इति चेत् , न ; नित्यत्वान्मोक्षस्येत्यादिना प्रत्युक्तत्वात् । श्रुतिश्च ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति कार्यस्य तदात्मत्वं दर्शयति । अभयप्रतिष्ठोपपत्तेश्च । यदि हि विद्यावान् स्वात्मनोऽन्यन्न पश्यति, ततः अभयं प्रतिष्ठां विन्दत इति स्यात् , भयहेतोः परस्य अन्यस्य अभावात् । अन्यस्य च अविद्याकृतत्वे विद्यया अवस्तुत्वदर्शनोपपत्तिः ; तद्धि द्वितीयस्य चन्द्रस्य असत्त्वम् , यदतैमिरिकेण चक्षुष्मता न गृह्यते ; नैवं न गृह्यत इति चेत् , न ; सुषुप्तसमाहितयोरग्रहणात् । सुषुप्तेऽग्रहणमन्यासक्तवदिति चेत् , न ; सर्वाग्रहणात् । जाग्रत्स्वप्नयोरन्यस्य ग्रहणात्सत्त्वमेवेति चेत् , न ; अविद्याकृतत्वात् जाग्रत्स्वप्नयोः ; यदन्यग्रहणं जाग्रत्स्वप्नयोः, तदविद्याकृतम् , विद्याभावे अभावात् । सुषुप्ते अग्रहणमपि अविद्याकृतमिति चेत् , न ; स्वाभाविकत्वात् । द्रव्यस्य हि तत्त्वमविक्रिया, परानपेक्षत्वात् ; विक्रिया न तत्त्वम् , परापेक्षत्वात् । न हि कारकापेक्षं वस्तुनस्तत्त्वम् ; सतो विशेषः कारकापेक्षः, विशेषश्च विक्रिया ; जाग्रत्स्वप्नयोश्च ग्रहणं विशेषः । यद्धि यस्य नान्यापेक्षं स्वरूपम् , तत्तस्य तत्त्वम् ; यदन्यापेक्षम् , न तत्तत्त्वम् ; अन्याभावे अभावात् । तस्मात् स्वाभाविकत्वात् जाग्रत्स्वप्नवत् न सुषुप्ते विशेषः । येषां पुनरीश्वरो अन्य आत्मनः, कार्यं च अन्यत् , तेषां भयानिवृत्तिः, भयस्य अन्यनिमित्तत्वात् ; सतश्च अन्यस्य आत्महानानुपपत्तिः । न च असत आत्मलाभः । सापेक्षस्य अन्यस्य भयहेतुत्वमिति चेत् , न ; तस्यापि तुल्यत्वात् । यद्धर्माद्यनुसहायीभूतं नित्यमनित्यं वा निमित्तमपेक्ष्य अन्यद्भयकारणं स्यात् , तस्यापि तथाभूतस्य आत्महानाभावात् भयानिवृत्तिः ; आत्महाने वा सदसतोरितरेतरापत्तौ सर्वत्र अनाश्वास एव । एकत्वपक्षे पुनः सनिमित्तस्य संसारस्य अविद्याकल्पितत्वाददोषः । तैमिरिकदृष्टस्य हि द्वितीयचन्द्रस्य न आत्मलाभो नाशो वा अस्ति । विद्याविद्ययोः तद्धर्मत्वमिति चेत् , न ; प्रत्यक्षत्वात् । विवेकाविवेकौ रूपादिवत् प्रत्यक्षावुपलभ्येते अन्तःकरणस्थौ । न हि रूपस्य प्रत्यक्षस्य सतो द्रष्ट्टधर्मत्वम् । अविद्या च स्वानुभवेन रूप्यते - मूढोऽहम् अविविक्तं मम विज्ञानम् इति । तथा विद्याविवेको अनुभूयते । उपदिशन्ति च अन्येभ्य आत्मनो विद्यां बुधाः । तथा च अन्ये अवधारयन्ति । तस्मात् नामरूपपक्षस्यैव विद्याविद्ये नामरूपे च ; न आत्मधर्मौ, ‘नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८ । १४ । १) इति श्रुत्यन्तरात् । ते च पुनर्नामरूपे सवितर्यहोरात्रे इव कल्पिते ; न परमार्थतो विद्यमाने । अभेदे ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५) इति कर्मकर्तृत्वानुपपत्तिरिति चेत् , न ; विज्ञानमात्रत्वात् सङ्क्रमणस्य । न जलूकादिवत् सङ्क्रमणमिहोपदिश्यते ; किं तर्हि, विज्ञानमात्रं सङ्क्रमणश्रुतेरर्थः । ननु मुख्यमेव सङ्क्रमणं श्रूयते - उपसङ्क्रामतीति इति चेत् , न ; अन्नमये अदर्शनात् । न हि अन्नमयमुपसङ्क्रामतः बाह्यादस्माल्लोकात् जलूकावत् सङ्क्रमणं दृश्यते, अन्यथा वा । मनोमयस्य बहिर्निर्गतस्य विज्ञानमयस्य वा पुनः प्रत्यावृत्त्या आत्मसङ्क्रमणमिति चेत् , न ; स्वात्मनि क्रियाविरोधात् । अन्योऽन्नमयमन्यमुपसङ्क्रामतीति प्रकृत्य मनोमयो विज्ञानमयो वा स्वात्मानमेवोपसङ्क्रामतीति विरोधः स्यात् । तथा न आनन्दमयस्य आत्मसङ्क्रमणमुपपद्यते । तस्मात् न प्राप्तिः सङ्क्रमणम् ; नापि अन्नमयादीनामन्यतमकर्तृकं पारिशेष्यादन्नमयाद्यानन्दमयान्तात्मव्यतिरिक्तकर्तृकं ज्ञानमात्रं च सङ्क्रमणमुपपद्यते । ज्ञानमात्रत्वे च आनन्दमयान्तःस्थस्यैव सर्वान्तरस्य आकाशाद्यन्नमयान्तं कार्यं सृष्ट्वा अनुप्रविष्टस्य हृदयगुहाभिसम्बन्धादन्नमयादिषु अनात्मसु आत्मविभ्रमः सङ्क्रमणात्मकविवेकविज्ञानोत्पत्त्या विनश्यति । तदेतस्मिन्नविद्याविभ्रमनाशे सङ्क्रमणशब्द उपचर्यते ; न हि अन्यथा सर्वगतस्य आत्मनः सङ्क्रमणमुपपद्यते । वस्त्वन्तराभावाच्च । न च स्वात्मन एव सङ्क्रमणम् । न हि जलूका आत्मानमेव सङ्क्रामति । तस्मात् सत्यं ज्ञानमनन्तं ब्रह्मेति यथोक्तलक्षणात्मप्रतिपत्त्यर्थमेव बहुभवनसर्गप्रवेशरसलाभाभयसङ्क्रमणादि परिकल्प्यते ब्रह्मणि सर्वव्यवहारविषये ; न तु परमार्थतो निर्विकल्पे ब्रह्मणि कश्चिदपि विकल्प उपपद्यते । तमेतं निर्विकल्पमात्मानम् एवं क्रमेणोपसङ्क्रम्य विदित्वा न बिभेति कुतश्चन अभयं प्रतिष्ठां विन्दत इत्येतस्मिन्नर्थेऽपि एषः श्लोकः भवति । सर्वस्यैव अस्य प्रकरणस्य आनन्दवल्ल्यर्थस्य सङ्क्षेपतः प्रकाशनाय एष मन्त्रो भवति ॥
इति अष्टमानुवाकभाष्यम् ॥
यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चनेति । एतं ह वाव न तपति । किमहं साधु ना करवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मानं स्पृणुते । उभे ह्येवैष एते आत्मानं स्पृणुते । य एवं वेद । इत्युपनिषत् ॥ १ ॥
यतः यस्मात् निर्विकल्पात् यथोक्तलक्षणात् अद्वयानन्दात् आत्मनः, वाचः अभिधानानि द्रव्यादिसविकल्पवस्तुविषयाणि वस्तुसामान्यान्निर्विकल्पे अद्वयेऽपि ब्रह्मणि प्रयोक्तृभिः प्रकाशनाय प्रयुज्यमानानि, अप्राप्य अप्रकाश्यैव निवर्तन्ते स्वसामर्थ्याद्धीयन्ते । मन इति प्रत्ययो विज्ञानम् । तच्च, यत्राभिधानं प्रवृत्तमतीन्द्रियेऽप्यर्थे, तदर्थे च प्रवर्तते प्रकाशनाय । यत्र च विज्ञानम् , तत्र वाचः प्रवृत्तिः । तस्मात् सहैव वाङ्मनसयोः अभिधानप्रत्ययोः प्रवृत्तिः सर्वत्र । तस्मात् ब्रह्मप्रकाशनाय सर्वथा प्रयोक्तृभिः प्रयुज्यमाना अपि वाचः यस्मादप्रत्ययविषयादनभिधेयाददृश्यादिविशेषणात् सहैव मनसा विज्ञानेन सर्वप्रकाशनसमर्थेन निवर्तन्ते, तं ब्रह्मण आनन्दं श्रोत्रियस्य अवृजिनस्य अकामहतस्य सर्वैषणाविनिर्मुक्तस्य आत्मभूतं विषयविषयिसम्बन्धविनिर्मुक्तं स्वाभाविकं नित्यमविभक्तं परमानन्दं ब्रह्मणो विद्वान् यथोक्तेन विधिना न बिभेति कुतश्चन, निमित्ताभावात् । न हि तस्माद्विदुषः अन्यद्वस्त्वन्तरमस्ति भिन्नं यतो बिभेति । अविद्यया यदा उदरमन्तरं कुरुते, अथ तस्य भयं भवतीति हि युक्तम् । विदुषश्च अविद्याकार्यस्य तैमिरिकदृष्टद्वितीयचन्द्रवत् नाशाद्भयनिमित्तस्य न बिभेति कुतश्चनेति युज्यते । मनोमये च उदाहृतः मन्त्रः, मनसो ब्रह्मविज्ञानसाधनत्वात् । तत्र ब्रह्मत्वमध्यारोप्य तत्स्तुत्यर्थं न बिभेति कदाचनेति भयमात्रं प्रतिषिद्धम् ; इह अद्वैतविषये न बिभेति कुतश्चनेति भयनिमित्तमेव प्रतिषिध्यते । नन्वस्ति भयनिमित्तं साध्वकरणं पापक्रिया च । नैवम् । कथमिति, उच्यते - एतं यथोक्तमेवंविदम् , ह वाव इत्यवधारणार्थौ, न तपति नोद्वेजयति न सन्तापयति । कथं पुनः साध्वकरणं पापक्रिया च न तपतीति, उच्यते - किं कस्मात् साधु शोभनं कर्म नाकरवं न कृतवानस्मि इति पश्चात्सन्तापो भवति आसन्ने मरणकाले ; तथा किं कस्मात् पापं प्रतिषिद्धं कर्म अकरवं कृतवानस्मि इति च नरकपतनादिदुःखभयात् तापो भवति । ते एते साध्वकरणपापक्रिये एवमेनं न तपतः, यथा अविद्वांसं तपतः । कस्मात्पुनर्विद्वांसं न तपत इति, उच्यते - स य एवंविद्वान् एते साध्वसाधुनी तापहेतू इति आत्मानं स्पृणुते प्रीणाति बलयति वा, परमात्मभावेन उभे पश्यतीत्यर्थः । उभे पुण्यपापे हि यस्मात् एवम् एष विद्वान् एते आत्मानात्मरूपेणैव पुण्यपापे स्वेन विशेषरूपेण शून्ये कृत्वा आत्मानं स्पृणुत एव । कः ? य एवं वेद यथोक्तमद्वैतमानन्दं ब्रह्म वेद, तस्य आत्मभावेन दृष्टे पुण्यपापे निर्वीर्ये अतापके जन्मान्तरारम्भके न भवतः । इतीयम् एवं यथोक्ता अस्यां वल्ल्यां ब्रह्मविद्योपनिषत् , सर्वाभ्यः विद्याभ्यः परमरहस्यं दर्शितमित्यर्थः - परं श्रेयः अस्यां निषण्णमिति ॥
इति नवमानुवाकभाष्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये ब्रह्मानन्दवल्लीभाष्यं सम्पूर्णम् ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
सत्यं ज्ञानमनन्तं ब्रह्म आकाशादिकार्यमन्नमयान्तं सृष्ट्वा तदेवानुप्रविष्टं विशेषवदिवोपलभ्यमानं यस्मात् , तस्मात् सर्वकार्यविलक्षणम् अदृश्यादिधर्मकमेव आनन्दं तदेवाहमिति विजानीयात् , अनुप्रवेशस्य तदर्थत्वात् ; तस्यैवं विजानतः शुभाशुभे कर्मणी जन्मान्तरारम्भके न भवतः इत्येवमानन्दवल्ल्यां विवक्षितोऽर्थः । परिसमाप्ता च ब्रह्मविद्या । अतः परं ब्रह्मविद्यासाधनं तपो वक्तव्यम् ; अन्नादिविषयाणि च उपासनान्यनुक्तानीत्यतः इदमारभ्यते -
भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । तं होवाच । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥
आख्यायिका विद्यास्तुतये, प्रियाय पुत्राय पित्रोक्तेति - भृगुर्वै वारुणिः । वै - शब्दः प्रसिद्धानुस्मारकः, भृगुरित्येवं नामा प्रसिद्धो अनुस्मार्यते, वारुणिः वरुणस्यापत्यं वारुणिः वरुणं पितरं ब्रह्म विजिज्ञासुः उपससार उपगतवान् - अधीहि भगवो ब्रह्म इत्यनेन मन्त्रेण । अधीहि अध्यापय कथय । स च पिता विधिवदुपसन्नाय तस्मै पुत्राय एतत् वचनं प्रोवाच - अन्नं प्राणं चक्षुः श्रोत्रम् मनो वाचम् इति । अन्नं शरीरं तदभ्यन्तरं च प्राणम् अत्तारम् अनन्तरमुपलब्धिसाधनानि चक्षुः श्रोत्रं मनो वाचम् इत्येतानि ब्रह्मोपलब्धौ द्वाराण्युक्तवान् । उक्त्वा च द्वारभूतान्येतान्यन्नादीनि तं भृगुं होवाच ब्रह्मणो लक्षणम् । किं तत् ? यतः यस्मात् वा इमानि ब्रह्मादीनि स्तम्बपर्यन्तानि भूतानि जायन्ते, येन जातानि जीवन्ति प्राणान्धारयन्ति वर्धन्ते, विनाशकाले च यत्प्रयन्ति यद्ब्रह्म प्रतिगच्छन्ति, अभिसंविशन्ति तादात्म्यमेव प्रतिपद्यन्ते, उत्पत्तिस्थितिलयकालेषु यदात्मतां न जहति भूतानि, तदेतद्ब्रह्मणो लक्षणम् , तद्ब्रह्म विजिज्ञासस्व विशेषेण ज्ञातुमिच्छस्व ; यदेवंलक्षणं ब्रह्म तदन्नादिद्वारेण प्रतिपद्यस्वेत्यर्थः । श्रुत्यन्तरं च - ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुस्ते निचिक्युर्ब्रह्म पुराणमग्र्यम्’ (बृ. उ. ४ । ४ । १८) इति ब्रह्मोपलब्धौ द्वाराण्येतानीति दर्शयति । स भृगुः ब्रह्मोपलब्धिद्वाराणि ब्रह्मलक्षणं च श्रुत्वा पितुः, तपो ब्रह्मोपलब्धिसाधनत्वेन अतप्यत तप्तवान् । कुतः पुनरनुपदिष्टस्यैव तपसः साधनत्वप्रतिपत्तिर्भृगोः ? सावशेषोक्तेः । अन्नादिब्रह्मणः प्रतिपत्तौ द्वारं लक्षणं च यतो वा इमानि इत्याद्युक्तवान् । सावशेषं हि तत् , साक्षाद्ब्रह्मणोऽनिर्देशात् । अन्यथा हि स्वरूपेणैव ब्रह्म निर्देष्टव्यं जिज्ञासवे पुत्राय इदमित्थंरूपं ब्रह्म इति ; न चैवं निरदिशत् ; किं तर्हि, सावशेषमेवोक्तवान् । अतोऽवगम्यते नूनं साधनान्तरमप्यपेक्षते पिता ब्रह्मविज्ञानं प्रतीति । तपोविशेषप्रतिपत्तिस्तु सर्वसाधकतमत्वात् ; सर्वेषां हि नियतसाध्यविषयाणां साधनानां तप एव साधकतमं साधनमिति हि प्रसिद्धं लोके । तस्मात् पित्रा अनुपदिष्टमपि ब्रह्मविज्ञानसाधनत्वेन तपः प्रतिपेदे भृगुः । तच्च तपो बाह्यान्तःकरणसमाधानम् , तद्द्वारकत्वाद्ब्रह्मप्रतिपत्तेः, ‘मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः । तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते’ इति स्मृतेः । स च तपस्तप्त्वा ॥
इति प्रथमानुवाकभाष्यम् ॥
अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥
अन्नं ब्रह्मेति व्यजानात् विज्ञातवान् । तद्धि यथोक्तलक्षणोपेतम् । कथम् ? अन्नाद्ध्येव खलु इमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तस्माद्युक्तमन्नस्य ब्रह्मत्वमित्यभिप्रायः । स एवं तपस्तप्त्वा, अन्नं ब्रह्मेति विज्ञाय लक्षणेन उपपत्त्या च पुनरेव संशयमापन्नः वरुणं पितरमुपससार - अधीहि भगवो ब्रह्मेति । कः पुनः संशयहेतुरस्येति, उच्यते - अन्नस्योत्पत्तिदर्शनात् । तपसः पुनः पुनरुपदेशः साधनातिशयत्वावधारणार्थः । यावद्ब्रह्मणो लक्षणं निरतिशयं न भवति, यावच्च जिज्ञासा न निवर्तते, तावत्तप एव ते साधनम् ; तपसैव ब्रह्म विजिज्ञासस्वेत्यर्थः । ऋज्वन्यत् ॥
इति द्वितीयानुवाकभाष्यम् ॥
प्राणो ब्रह्मेति व्यजानात् । प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीही भगवो ब्रह्मेति । तं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥
इति तृतीयोऽनुवाकः ॥
मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुससार । अधीहि भगवो ब्रह्मेति । तं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥
इति चतुर्थोऽनुवाकः ॥
विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥
इति पञ्चमोऽनुवाकः ॥
आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति । सैषा भार्गवी वारुणी विद्या । परमे व्योमन् प्रतिष्ठिता । स य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति । प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ १ ॥
एवं तपसा विशुद्धात्मा प्राणादिषु साकल्येन ब्रह्मलक्षणमपश्यन् शनैः शनैः अन्तरनुप्रविश्य अन्तरतममानन्दं ब्रह्म विज्ञातवान् तपसैव साधनेन भृगुः ; तस्मात् ब्रह्म विजिज्ञासुना बाह्यान्तःकरणसमाधानलक्षणं परमं तपः साधनमनुष्ठेयमिति प्रकरणार्थः । अधुना आख्यायिकां च उपसंहृत्य श्रुतिः स्वेन वचनेन आख्यायिकानिर्वर्त्यमर्थमाचष्टे । सैषा भार्गवी भृगुणा विदिता वरुणेन प्रोक्ता वारुणी विद्या परमे व्योमन् हृदयाकाशगुहायां परमे आनन्दे अद्वैते प्रतिष्ठिता परिसमाप्ता अन्नमयादात्मनोऽधिप्रवृत्ता । य एवमन्योऽपि तपसैव साधनेन अनेनैव क्रमेण अनुप्रविश्य आनन्दं ब्रह्म वेद, स एवं विद्याप्रतिष्ठानात् प्रतितिष्ठति आनन्दे परमे ब्रह्मणि, ब्रह्मैव भवतीत्यर्थः । दृष्टं च फलं तस्योच्यते - अन्नवान् प्रभूतमन्नमयस्य विद्यत इत्यन्नवान् ; सत्तामात्रेण तु सर्वो हि अन्नवानिति विद्याया विशेषो न स्यात् । एवमन्नमत्तीत्यन्नादः, दीप्ताग्निर्भवतीत्यर्थः । महान्भवति । केन महत्त्वमित्यत आह - प्रजया पुत्रादिना पशुभिः गवाश्वादिभिः ब्रह्मवर्चसेन शमदमज्ञानादिनिमित्तेन तेजसा । महान्भवति कीर्त्या ख्यात्या शुभाचारनिमित्तया ॥
इति षष्ठानुवाकभाष्यम् ॥
अन्नं न निन्द्यात् । तद्व्रतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति । प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ १ ॥
किं च, अन्नेन द्वारभूतेन ब्रह्म विज्ञातं यस्मात् , तस्मात् गुरुमिव अन्नं न निन्द्यात् ; तत् अस्य एवं ब्रह्मविदो व्रतम् उपदिश्यते । व्रतोपदेशो अन्नस्तुतये, स्तुतिभाक्त्वं च अन्नस्य ब्रह्मोपलब्ध्युपायत्वात् । प्राणो वा अन्नम् , शरीरान्तर्भावात्प्राणस्य । यत् यस्यान्तः प्रतिष्ठितं भवति, तत्तस्यान्नं भवतीति । शरीरे च प्राणः प्रतिष्ठितः, तस्मात् प्राणोऽन्नं शरीरमन्नादम् । तथा शरीरमप्यन्नं प्राणोऽन्नादः । कस्मात् प्राणे शरीरं प्रतिष्ठितम् ? तन्निमित्तत्वाच्छरीरस्थितेः । तस्मात् तदेतत् उभयं शरीरं प्राणश्च अन्नमन्नादश्च । येनान्योन्यस्मिन्प्रतिष्ठितं तेनान्नम् ; येनान्योन्यस्य प्रतिष्ठा तेनान्नादः । तस्मात् प्राणः शरीरं च उभयमन्नमन्नादं च । स य एवम् एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति अन्नान्नादात्मनैव । किं च, अन्नवानन्नादो भवतीत्यादि पूर्ववत् ॥
इति सप्तमानुवाकभाष्यम् ॥
अन्नं न परिचक्षीत । तद्व्रतम् । आपो वा अन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति । प्रजया पशुभिर्ब्रह्मवर्चसेन । महान्कीर्त्या ॥
अन्नं न परिचक्षीत न परिहरेत् । तद्व्रतं पूर्ववत्स्तुत्यर्थम् । तदेवं शुभाशुभकल्पनया अपरिह्रीयमाणं स्तुतं महीकृतमन्नं स्यात् । एवं यथोक्तमुत्तरेष्वपि आपो वा अन्नम् इत्यादिषु योजयेत् ॥
इति अष्टमानुवाकभाष्यम् ॥
अन्नं बहु कुर्वीत । तद्व्रतम् । पृथिवी वा अन्नम् । आकाशोऽन्नादः । पृथिव्यामाकाशः प्रतिष्ठितः । आकाशे पृथिवी प्रतिष्ठिता । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति । प्रजया पशुभिर्ब्रह्मवर्चसेन । महान्कीर्त्या ॥
अप्सु ज्योतिः इत्यब्ज्योतिषोरन्नान्नादगुणत्वेनोपासकस्य अन्नस्य बहुकरणं व्रतम् ॥
इति नवमानुवाकभाष्यम् ॥
न कञ्चन वसतौ प्रत्याचक्षीत । तद्व्रतम् । तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् । अराध्यस्मा अन्नमित्याचक्षते । एतद्वै मुखतोऽन्नं राद्धम् । मुखतोऽस्मा अन्नं राध्यते । एतद्वै मध्यतोऽन्नं राद्धम् । मध्यतोऽस्मा अन्नं राध्यते । एतद्वा अन्ततोऽन्नं राद्धम् । अन्ततोऽस्मा अन्नं राध्यते ॥ १ ॥
तथा पृथिव्याकाशोपासकस्य वसतौ वसतिनिमित्तं कञ्चन कञ्चिदपि न प्रत्याचक्षीत, वसत्यर्थमागतं न निवारयेदित्यर्थः । वासे च दत्ते अवश्यं हि अशनं दातव्यम् । तस्माद्यया कया च विधया येन केन च प्रकारेण बह्वन्नं प्राप्नुयात् बह्वन्नसङ्ग्रहं कुर्यादित्यर्थः । यस्मादन्नवन्तो विद्वांसः अभ्यागताय अन्नार्थिने अराधि संसिद्धम् अस्मै अन्नम् इत्याचक्षते, न नास्तीति प्रत्याख्यानं कुर्वन्ति, तस्माच्च हेतोः बह्वन्नं प्राप्नुयादिति पूर्वेण सम्बन्धः । अपि च अन्नदानस्य माहात्म्यमुच्यते - यथा यत्कालं प्रयच्छत्यन्नम् , तथा तत्कालमेव प्रत्युपनमते । कथमिति तदेतदाह - एतद्वै अन्नं मुखतः मुख्ये प्रथमे वयसि मुख्यया वा वृत्त्या पूजापुरःसरमभ्यागतायान्नार्थिने राद्धं संसिद्धं प्रयच्छतीति वाक्यशेषः । तस्य किं फलं स्यादिति, उच्यते - मुखतः पूर्वे वयसि मुख्यया वा वृत्त्या अस्मै अन्नदाय अन्नं राध्यते ; यथादत्तमुपतिष्ठत इत्यर्थः । एवं मध्यतो मध्यमे वयसि मध्यमेन च उपचारेण ; तथा अन्ततः अन्ते वयसि जघन्येन च उपचारेण परिभवेन तथैवास्मै राध्यते संसिध्यत्यन्नम् ॥
य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः । कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ । इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ । बलमिति विद्युति ॥ २ ॥
य एवं वेद य एवमन्नस्य यथोक्तं माहात्म्यं वेद तद्दानस्य च फलम् , तस्य यथोक्तं फलमुपनमते । इदानीं ब्रह्मण उपासनप्रकारः उच्यते - क्षेम इति वाचि । क्षेमो नाम उपात्तपरिरक्षणम् । ब्रह्म वाचि क्षेमरूपेण प्रतिष्ठितमित्युपास्यम् । योगक्षेम इति, योगः अनुपात्तस्योपादानम् । तौ हि योगक्षेमौ प्राणापानयोः बलवतोः सतोर्भवतः यद्यपि, तथापि न प्राणापाननिमित्तावेव ; किं तर्हि, ब्रह्मनिमित्तौ । तस्माद्ब्रह्म योगक्षेमात्मना प्राणापानयोः प्रतिष्ठितमित्युपास्यम् । एवमुत्तरेष्वन्येषु तेन तेन आत्मना ब्रह्मैवोपास्यम् । कर्मणो ब्रह्मनिर्वर्त्यत्वात् हस्तयोः कर्मात्मना ब्रह्म प्रतिष्ठितमित्युपास्यम् । गतिरिति पादयोः । विमुक्तिरिति पायौ । इत्येता मानुषीः मनुष्येषु भवा मानुष्याः समाज्ञाः, आध्यात्मिक्यः समाज्ञा ज्ञानानि विज्ञानान्युपासनानीत्यर्थः । अथ अनन्तरं दैवीः दैव्यः देवेषु भवाः समाज्ञा उच्यन्ते । तृप्तिरिति वृष्टौ । वृष्टेरन्नादिद्वारेण तृप्तिहेतुत्वाद्ब्रह्मैव तृप्त्यात्मना वृष्टौ व्यवस्थितमित्युपास्यम् ; तथा अन्येषु तेन तेनात्मना ब्रह्मैवोपास्यम् । तथा बलरूपेण विद्युति ॥
यश इति पशुषु । ज्योतिरिति नक्षत्रेषु । प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे । तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान् भवति । तन्मह इत्युपासीत । महान् भवति । तन्मन इत्युपासीत । मानवान् भवति ॥ ३ ॥
यशोरूपेण पशुषु । ज्योतीरूपेण नक्षत्रेषु । प्रजातिः अमृतम् अमृतत्वप्राप्तिः पुत्रेण ऋणविमोक्षद्वारेण आनन्दः सुखमित्येतत्सर्वमुपस्थनिमित्तं ब्रह्मैव अनेनात्मना उपस्थे प्रतिष्ठितमित्युपास्यम् । सर्वं हि आकाशे प्रतिष्ठितम् ; अतो यत्सर्वमाकाशे तद्ब्रह्मैवेत्युपास्यम् ; तच्चाकाशं ब्रह्मैव । तस्मात् तत् सर्वस्य प्रतिष्ठेत्युपासीत । प्रतिष्ठागुणोपासनात् प्रतिष्ठावान् भवति । एवं सर्वेष्वपि । यद्यत्राधिगतं फलम् , तत् ब्रह्मैव ; तदुपासनात्तद्वान्भवतीति द्रष्टव्यम् ; श्रुत्यन्तराच्च - ‘तं यथा यथोपासते तदेव भवति’ इति । तन्मह इत्युपासीत । महः महत्त्वगुणवत् तदुपासीत । महान्भवति । तन्मन इत्युपासीत । मननं मनः । मानवान्भवति मननसमर्थो भवति ॥
तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः । तद्ब्रह्मेत्युपासीत । ब्रह्मवान् भवति । तद्ब्रह्मणः परिमर इत्युपासीत । पर्येणं म्रियन्ते द्विषन्तः सपत्नाः । परि येऽप्रिया भ्रातृव्याः । स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ॥ ४ ॥
तन्नम इत्युपासीत नमनं नमः नमनगुणवत् तदुपासीत । नम्यन्ते प्रह्वीभवन्ति अस्मै उपासित्रे कामाः काम्यन्त इति भोग्या विषया इत्यर्थः । तद्ब्रह्मेत्युपासीत । ब्रह्म परिबृढतममित्युपासीत । ब्रह्मवान् तद्गुणो भवति । तद्ब्रह्मणः परिमर इत्युपासीत ब्रह्मणः परिमरः परिम्रियन्तेऽस्मिन्पञ्च देवता विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निरित्येताः । अतः वायुः परिमरः, श्रुत्यन्तरप्रसिद्धेः । स एवायं वायुराकाशेनानन्य इत्याकाशो ब्रह्मणः परिमरः ; तस्मादाकाशं वाय्वात्मानं ब्रह्मणः परिमर इत्युपासीत । एनम् एवविदं प्रतिस्पर्धिनो द्विषन्तः ; अद्विषन्तोऽपि सपत्ना यतो भवन्ति, अतो विशेष्यन्ते द्विषन्तः सपत्ना इति । एनं द्विषन्तः सपत्नाः ते परिम्रियन्ते प्राणान् जहति । किं च, ये च अप्रिया अस्य भ्रातृव्या अद्विषन्तोऽपि ते च परिम्रियन्ते ॥
‘प्राणो वा अन्नं शरीरमन्नादम्’ इत्यारभ्य आकाशान्तस्य कार्यस्यैव अन्नान्नादत्वमुक्तम् । उक्तं नाम - किं तेन ? तेनैतत्सिद्धं भवति - कार्यविषय एव भोज्यभोक्तृत्वकृतः संसारः, न त्वात्मनीति । आत्मनि तु भ्रान्त्या उपचर्यते । नन्वात्मापि परमात्मनः कार्यम् , ततो युक्तः तस्य संसार इति ; न, असंसारिण एव प्रवेशश्रुतेः । ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) इत्याकाशादिकारणस्य हि असंसारिण एव परमात्मनः कार्येष्वनुप्रवेशः श्रूयते । तस्मात्कार्यानुप्रविष्टो जीव आत्मा पर एव असंसारी ; सृष्ट्वा अनुप्राविशदिति समानकर्तृत्वोपपत्तेश्च । सर्गप्रवेशक्रिययोश्चैकश्चेत्कर्ता, ततः क्त्वाप्रत्ययो युक्तः । प्रविष्टस्य तु भावान्तरापत्तिरिति चेत् , न ; प्रवेशस्यान्यार्थत्वेन प्रत्याख्यातत्वात् । ‘अनेन जीवेन आत्मना’ (छा. उ. ६ । ३ । २)इति विशेषश्रुतेः धर्मान्तरेणानुप्रवेश इति चेत् , न ; ‘तत् सत्यम्’ ‘स आत्मा’ ‘तत् त्वमसि’ (छा. उ. ६ । ८ । १६) इति सामानाधिकरण्यात् । दृष्टं जीवस्य संसारित्वमिति चेत् , न ; उपलब्धुरनुपलभ्यत्वात् । संसारधर्मविशिष्ट आत्मोपलभ्यत इति चेत् , न ; धर्माणां धर्मिणोऽव्यतिरेकात् कर्मत्वानुपपत्तेः । उष्णप्रकाशयोर्दाह्यप्रकाश्यत्वानुपपत्तिवत् त्रासादिदर्शनाद्दुःखित्वाद्यनुमीयत इति चेत् , न ; त्रासादेर्दुःखस्य च उपलभ्यमानत्वात् नोपलब्धृधर्मत्वम् । कापिलकाणादादितर्कशास्त्रविरोध इति चेत् , न ; तेषां मूलाभावे वेदविरोधे च भ्रान्तत्वोपपत्तेः । श्रुत्युपपत्तिभ्यां च सिद्धम् आत्मनोऽसंसारित्वम् , एकत्वाच्च । कथमेकत्वमिति, उच्यते - स यश्चायं पुरुषे यश्चासावादित्ये स एकः इत्येवमादि पूर्ववत्सर्वम् ॥
स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रम्य । एतं प्राणमयमात्मानमुपसङ्क्रम्य । एतं मनोमयमात्मानमुपसङ्क्रम्य । एतं विज्ञानमयमात्मानमुपसङ्क्रम्य । एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमांल्लोकान्कामान्नी कामरूप्यनुसञ्चरन् । एतत्साम गायन्नास्ते । हा३वु हा३वु हा३वु ॥ ५ ॥
अन्नमयादिक्रमेण आनन्दमयमात्मानमुपसङ्क्रम्य एतत्साम गायन्नास्ते । ‘सत्यं ज्ञानम्’ इत्यस्या ऋचः अर्थः व्याख्यातः विस्तरेण तद्विवरणभूतया आनन्दवल्ल्या । ‘सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता’ (तै. उ. २ । १ । १) इति तस्य फलवचनस्य अर्थविस्तारो नोक्तः । के ते ? किंविषया वा सर्वे कामाः ? कथं वा ब्रह्मणा सह समश्नुते ? - इत्येतद्वक्तव्यमितीदमिदानीमारभ्यते । तत्र पितापुत्राख्यायिकायां पूर्वविद्याशेषभूतायां तपः ब्रह्मविद्यासाधनमुक्तम् । प्राणादेराकाशान्तस्य च कार्यस्य अन्नान्नादत्वेन विनियोगश्च उक्तः ; ब्रह्मविषयोपासनानि च । ये च सर्वे कामाः प्रतिनियतानेकसाधनसाध्या आकाशादिकार्यभेदविषयाः, एते दर्शिताः । एकत्वे पुनः कामकामित्वानुपपत्तिः, भेदजातस्य सर्वस्य आत्मभूतत्वात् । तत्र कथं युगपद्ब्रह्मस्वरूपेण सर्वान्कामान् एवंवित्समश्नुत इति, उच्यते - सर्वात्मत्वोपपत्तेः । कथं सर्वात्मत्वोपपत्तिरिति, आह - पुरुषादित्यस्थात्मैकत्वविज्ञानेनापोह्योत्कर्षापकर्षावन्नमयादीन्आत्मनोऽविद्याकल्पितान् क्रमेण सङ्क्रम्य आनन्दमयान्तान् सत्यं ज्ञानमनन्तं ब्रह्म अदृश्यादिधर्मकं स्वाभाविकमानन्दमजममृतमभयमद्वैतं फलभूतमापन्नः इमँल्लोकान्भूरादीननुसञ्चरन्निति व्यवहितेन सम्बन्धः । कथमनुसञ्चरन् ? कामान्नी कामतोऽन्नमस्येति कामान्नी ; तथा कामतो रूपाण्यस्येति कामरूपी ; अनुसञ्चरन् सर्वात्मना इमान् लोकानात्मत्वेन अनुभवन् । किम् ? एतत्साम गायन्नास्ते । समत्वाद्ब्रह्मैव साम सर्वानन्यरूपं गायन् शब्दयन् आत्मैकत्वं प्रख्यापयन् लोकानुग्रहार्थं तद्विज्ञानफलं च अतीव कृतार्थत्वं गायन् आस्ते तिष्ठति । कथम् ? हा३वु हा३वु हा३वु । अहो इत्येतस्मिन्नर्थेऽत्यन्तविस्मयख्यापनार्थम् ॥
कः पुनरसौ विस्मय इति, उच्यते -
अहमन्नमहमन्नमहमन्नम् । अहमन्नादो३ऽहमन्नादो३ऽहमन्नादः । अहं श्लोककृदहं श्लोककृदहं श्लोककृत् । अहमस्मि प्रथमजा ऋता३स्य । पूर्वं देवेभ्योऽमृतस्य ना३भायि । यो मा ददाति स इदेव मा३वाः । अहमन्नमन्नमदन्तमा३द्मि । अहं विश्वं भुवनमभ्यभवा३म् । सुवर्न ज्योतीः । य एवं वेद । इत्युपनिषत् ॥ ६ ॥
अद्वैत आत्मा निरञ्जनोऽपि सन् अहमेवान्नमन्नादश्च । किञ्च, अहमेव श्लोककृत् । श्लोको नाम अन्नान्नादयोः सङ्घातः, तस्य कर्ता चेतनावान् । अन्नस्यैव वा परार्थस्य अन्नादार्थस्य सतोऽनेकात्मकस्य पारार्थ्येन हेतुना सङ्घातकृत् । त्रिरुक्तिः विस्मयत्वख्यापनार्था । अहमस्मि भवामि । प्रथमजाः प्रथमजः प्रथमोत्पन्नः । ऋतस्य सत्यस्य मूर्तामूर्तस्यास्य जगतो देवेभ्यश्च पूर्वममृतस्य नाभिः अमृतत्वस्य नाभिः, मध्यं मत्संस्थम् अमृतत्वं प्राणिनामित्यर्थः । यः कश्चित् मा माम् अन्नमन्नार्थिभ्यो ददाति प्रयच्छति - अन्नात्मना ब्रवीति, सः इत् इत्थमेवेत्यर्थः, एवमविनष्टं यथाभूतं माम् आवा अवतीत्यर्थः । यः पुनरन्यो मामदत्वा अर्थिभ्यः काले प्राप्तेऽन्नमत्ति तमन्नमदन्तं भक्षयन्तं पुरुषमहमन्नमेव संप्रत्यद्मि भक्षयामि । अत्राह - एवं तर्हि बिभेमि सर्वात्मत्वप्राप्तेर्मोक्षात् ; अस्तु संसार एव, यतो मुक्तोऽप्यहम् अन्नभूतः अद्यः स्याम् अन्यस्य । एवं मा भैषीः ; संव्यवहारविषयत्वात् सर्वकामाशनस्य ; अतीत्यायं संव्यवहारविषयमन्नान्नादादिलक्षणमविद्याकृतं विद्यया ब्रह्मत्वमापन्नः विद्वान् ; तस्य नैव द्वितीयं वस्त्वन्तरमस्ति, यतो बिभेति ; अतो न भेतव्यं मोक्षात् । एवं तर्हि किमिदमाह - अहमन्नमहमन्नाद इति ? उच्यते । योऽयमन्नान्नादादिलक्षणः संव्यवहारः कार्यभूतः, स संव्यवहारमात्रमेव ; न परमार्थवस्तु । स एवंभूतोऽपि ब्रह्मनिमित्तो ब्रह्मव्यतिरेकेणासन्निति कृत्वा ब्रह्मविद्याकार्यस्य ब्रह्मभावस्य स्तुत्यर्थमुच्यते - ‘अहमन्नमहमन्नमहमन्नम् । अहमन्नादोऽहमन्नादोऽहमन्नादः’ इत्यादि । अतः भयादिदोषगन्धोऽपि अविद्यानिमित्तः अविद्योच्छेदाद्ब्रह्मभूतस्य नास्तीति । अहं विश्वं समस्तं भुवनं भूतैः सम्भजनीयं ब्रह्मादिभिर्भवन्तीति वा अस्मिन् भूतानीति भुवनम् अभ्यभवाम् अभिभवामि परेणेश्वरेण स्वरूपेण । सुवर्न ज्योतीः सुवः आदित्यः ; नकार उपमार्थे ; आदित्य इव सकृद्विभातमस्मदीयं ज्योतीः ज्योतिः, प्रकाश इत्यर्थः । इति वल्लीद्वयविहिता उपनिषत् परमात्मज्ञानम् ; तामेतां यथोक्तामुपनिषदं शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा भृगुवत् तपो महदास्थाय य एवं वेद, तस्येदं फलं यथोक्तमोक्ष इति ॥
इति दशमानुवाकभाष्यम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये भृगुवल्लीभाष्यं सम्पूर्णम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्यं सम्पूर्णम् ॥